सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 375, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 375

व्यवहाराध्यायः ३१६
स्वमात्मसंबन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीतं यदि पश्यति, तदा
लभेत गृह्णीयात् ; अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । 'विक्रीत' ग्रहणं दत्ता-
हितयोरुपलक्षणार्थम् ; अस्वामिविक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम्--
'अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत्' इति । क्रेतुः पुनरप्रकाशिते गोपिते
२क्रये दोषो भवति । तथा हीनात्तत्तद्द्रव्यागमोपायहीनाद्रहसि चैकान्ते संभाव्य-
द्रव्यादपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेला-
हीनः, क्रयो रात्र्यादौ कृतस्तत्र च क्रेता तस्करो भवति । तस्करवद्दण्डभा-
ग्भवतीत्यर्थः । यथोक्तम् (ना० ७।१।३-५)-'द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी
तदाप्नुयात् । प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ॥' इति ॥ १६८ ॥
भाषा-अपनी वस्तु किसी दूसरे के पास बेची हुई देखे तो उसे ले
लेवे । चोरी छिपे क्रय करने में क्रेता को दोष होता है । हीन (जिसके
पास वह वस्तु सामान्यतः नहीं होनी चाहिए) व्यक्ति से एकान्त में
कममूल्य पर और अयुक्त समय पर (रात्रि में) खरीदे तो क्रेता चोर
होता है ॥ १६८ ॥
स्वाम्यभियुक्ते क्रेत्रा किं कर्तव्यमित्यत आह—
नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् ।
देशकालातिपत्तौ च३ गृहीत्वा स्वयमर्पयेत् ॥ १६९ ॥
नष्टमपहृतं वाऽन्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारं ४ नरं ग्राहयेत्
चौरोद्धरणकादिभिः आत्मविशुद्ध्यर्थं राजदण्डप्राप्त्यर्थं च । अथाविदितदेशान्तरं
गतः कालान्तरे वा विपन्नस्तदा मूलसमाहरणशक्तेर्विक्रेतारमदर्शयित्वैव स्वय-
मेव तद्धनं नाष्टिकस्य समर्पयेत् । तावतैवासौ शुद्धो भवतीति श्रीकराचार्येण
व्याख्यातं,-तदिदमनुपपन्नम् , विक्रेतृदर्शनाच्छुद्धिः' (व्य० १७०) इत्यनेन
पौनरुक्त्यप्रसङ्गात् । अतोऽन्यथा व्याख्यायते नष्टापहृतमिति । नाष्टिकं प्रत्यय-
मुपदेशः । नष्टमपहृतं वाऽऽत्मीयद्रव्यमासाद्य क्रेतृहस्तस्थं ज्ञात्वा तं हर्तारं
क्रेतारं स्थानपालादिभिर्ग्राहयेत् । देशकालातिपत्तौ देशकालातिक्रमे स्थानपा-
लाचसंनिधाने तद्विज्ञापनकालात्प्राक् पलायनाशङ्कायां स्वयमेव गृहीत्वा तेभ्यः
समर्पयेत् ॥ १६९ ॥
भाषा-अपनी खोई हुई या चोरी गई हुई वस्तु देखे तो उसके विक्रेता
को पकड़वाये; यदि उसके कहीं भाग जाने या देर होने की आशंका हो तो
स्वयं पकड़ कर स्थानपाल के पास ले जावे ॥ १६९ ॥

१. अस्वामिक्रीतेन । २. क्रय्ये । ३. वा । ४. विक्रेतारं
ग्राहयेत् । ५. तद्विज्ञापकात्प्राक् ।