सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 339, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 339

व्यवहाराध्यायः २८३
स्वबुद्ध्या गृहीतेऽप्यवर्जनीयतया परस्वमपि गृहीतमेवेति निषेधानुप्रवेशाद्दोष-
मावहत्येव । यथा मौद्गे चरौ विपक्षे सहशतया माषेषु गृह्यमाणेषु 'अयज्ञिया
वै माषाः' इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वादिति पूर्वप-
क्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति
निषेधः प्रविशत्येवेति सिद्धान्तिनोक्तम् । तस्माद्वचनतो न्यायतश्च साधारणद्र-
व्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ ॥
भाषा-विभाग के समय आपस में छिपाकर रखा गया धन यदि पितृ-
धन के विभाग के उपरान्त दिखाई पड़े तो वे सभी भाई उसका समान अंश
करके विभाजन कर लें; यही नियम है ॥ १२६ ॥
द्व्यामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह—
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७ ॥
'अपुत्रां गुर्वनुज्ञातः' (आ० ६८) इत्याद्युक्तविधिना अपुत्रेण देवरादिना
परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्रः उभयोर्बीजिक्षेत्रिणोरसौ
रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः—यदाऽसौ
नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य १ क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति, स
द्विपित्रिको द्व्यामुष्यायणो द्वयोरपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः
पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थं प्रयतते २, तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति,
न बीजिनः । स च न नियमेन बीजिनो रिक्थहारी पिण्डदो ३ वेति ।
यथोक्तं मनुना (९।५३)—'क्रियाभ्युपगमात्क्षेत्रं बीजार्थं यत्प्रदीयते । तस्येह
भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥' इति । क्रियाभ्युपगमादिति अत्रोत्पन्न-
मपत्यमावयोरुभयोरपि भवत्विति संविदङ्गीकरणाद्यत्क्षेत्रं क्षेत्रस्वामिना ५बीजाव-
पनार्थं बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ
स्वामिनौ दृष्टौ महर्षिभिः । तथा (मनुः ९।५२)—'फलं त्वनभिसंधाय
क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्बलीयसी ॥' इति ।
फलं त्वनभिसंधायेति । अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वित्येवमनभिसंधाय
परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । यतो बीजाद्योनिर्बलीयसी;
गवाश्वादिषु तथा दर्शनात् । अत्रापि ६नियोगो वाग्दत्ताविषय एव; इतरस्य
नियोगस्य मनुना निषिद्धत्वात् (९।५९, ६०) - 'देवराद्वा सपिण्डाद्वा स्त्रिया
१. अपरस्य । २. प्रवर्तते । ३. पिण्डदाता च । ४. करणेन यत्क्षेत्रं ।
५. बीजवापनार्थं । ६. तथानियोगो ।