याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 292, कुल 782 में से
संदर्भ में पढ़ें२३६ याज्ञवल्क्यस्मृतिः
अथ लेख्यप्रकरणम् ६
भुक्तिसाक्षिणौ निरूपितौ, सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधम्—
शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच्च द्विवि-
धम्—स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं, अन्यकृतं ससाक्षि-
कम् अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः ( १।१३५ )—
'लेख्यं तु द्विविधं ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्ससाक्षिकं सिद्धिर्देश-
स्थितेस्तयोः ॥' इति । तत्रान्यकृतमाह—
यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम् ॥ ८४ ॥
धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या 'इयता कालेनैतावद्दे-
यम्', 'इयती च प्रतिमासं वृद्धिः'इति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे
विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं
धनिकः पूर्वो यस्मिंस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमिति यावत् ।
कार्यं कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः; 'कर्ता तु यत्कृतं कार्यं
सिद्ध्यर्थं तस्य साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाऽथ लेखकम् ॥' इति
स्मरणात् ॥ ८४ ॥
भाषा—जब धनी और अधमर्ण ( ऋण ) में अपनी इच्छा से परस्पर
कोई बात तय हुई हो ( जैसे ऋण भुगतान का समय, वृद्धि की दर आदि )
तो साक्षियों के सामने उसे लिख देना चाहिए । लेख में धनिक ( ऋणदाता )
का उल्लेख करें ॥ ८४ ॥
समामासतदर्धाहर्नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ ८५ ॥
अपि च, समा संवत्सरः, मासश्चैत्रादिः, तदर्धं पक्षः—शुक्लः कृष्णो वा,
अहस्तिथिः प्रतिपदादिः, नाम धनिकर्णिकयोः, जातिर्ब्राह्मणत्वादिः, स्वगोत्रं
वासिष्ठादिगोत्रम् , एतैः समादिभिश्चिह्नितम् , तथा सब्रह्मचारिकं बह्वृचादि-
शाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम,
'आदि'ग्रहणाद् द्रव्यजातिसंख्याचारादेर्ग्रह णम् । 'एतैश्च चिह्नितं लेख्यं कार्यम्'
इति गतेन संबन्धः ॥ ८५ ॥
१. मन्यहस्तकृतं । २. सगोत्रकैः । ३. धनिकाऽधमर्णिकयोः ।
४. संख्यावारादेः ।