सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 289, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 289

[Header]
व्यवहाराध्यायः २३३

द्विगुणं पृथक्पृथगेकैकशो दण्डनीयाः । ब्राह्मणस्तु विवास्यो राष्ट्रात्रिर्वास्यः, न¹
दण्डनीयः । एतच्च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम्² ।
लोभादिकारणविशेषपरिज्ञानेऽभ्यासे च मनूक्तम् (८।१२०-२१)—'लोभा-
त्सहस्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ³ मैत्र्यात्पूर्वं
चतुर्गुणम् ॥ कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् । अज्ञानाद् द्वे शते पूर्णे
बालिश्याच्छतमेव तु ॥' इति । तत्र लोभोऽर्थलिप्सा, मोहो विपर्ययज्ञानम् ,
भयं संत्रासः, मैत्री स्नेहातिशयः, कामः स्त्रीव्य⁴तिकराभिलाषः, क्रोधोऽमर्षः ।
अज्ञानमस्फुटज्ञानम्, बालिश्यं ज्ञानानुत्पादः । - सहस्रादिषु तान्त्रिकाः पणा
गृह्यन्ते । तथा (मनुः ८।१२३)- 'कूटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः ।
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥' इति, एतच्चाभ्यासविषयम् ; कुर्वा-
णानिति वर्तमान⁵निर्देशात् । त्रीन्वर्णान्वक्षत्रियादीन् पूर्वोक्तं दण्डं दण्डयित्वा प्रवा-
सयेन्मारयेत् । अर्थशास्त्रे 'प्रवास'शब्दस्य मारणे प्रयोगात् , अस्य चार्थशास्त्ररूप-⁶
त्वात् । तत्रापि प्रवासनमोष्ठच्छेदने जिह्वाच्छेदनं प्राणवियोजनं च कूटसाक्ष्य-
विषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रात्रिष्कासयेत् ।
यद्वा, -वाससो विगती विवासाः । विवासनं करोतीति णिचि कृते 'णाविष्ठव-
त्प्रातिपदिकस्य' इति टिलोपे रूपम् । विवासयेत् नग्नीकुर्यादित्यर्थः । अथवा
वसत्यस्मिन्निति वासो गृहम् । विवासयेत् भग्नगृहं कुर्यादित्यर्थः । ब्राह्मणस्यापि
लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्र तत्रोक्तो दण्ड एव । अभ्यासे स्वर्थ-
दण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृह-
भङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञानेऽ-
नभ्यासे चाल्पविषये कूटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवदर्थदण्ड एव ।
महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूक्तं द्रष्टव्यम् ।
न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे
च निषिद्धे स्वल्पेऽप्यपराधे नग्नीकरणगृहमङ्गाङ्ककरणविप्रवासनं दण्डाभावो
वा प्रसज्येत; 'चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं
दण्डं धर्म्यं प्रकल्पयेत् ॥' इति स्मरणाच्च । तथा (मनुः ८।३७८ )-'सहस्रं
ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन्' इति स्मरणात् । यत्तु शङ्खवचनम्-
'त्रयाणां वर्णानां धनापहारवध-बन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य'
इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितः वधसाहचर्यात् ; 'शारीर-
स्त्ववरोधादिर्जीवितान्तः प्रकीर्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्त-


[Footnotes]
१. न दण्ड्याः । २. द्रष्टव्यम् । ३. भयादौ मध्यमो दण्डो । ४. स्त्रीव्य-
तिरेकाभि । ५. वर्तमानकाल । ६. शास्त्रस्वरूप ।