याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 287, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २१९
वाक्यम्' इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच्च यः शुद्धोऽव-
गतोऽर्थः स शुद्धस्तथाभूत इति स्थितिरीदृशी मर्यादा न्यायविदाम् । कारण-
दोषबाधकप्रत्ययाभावे सत्यवितथ एवार्थ इत्यर्थः । ननु स्वयमर्थिना प्रमाणीकृ-
तान्त्साक्षिणोऽतिक्रम्य कथं क्रियान्तरं प्रमाणीक्रियते ? नैष दोषः; यतः—'क्रियां
बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां
नाप्नुयात्क्रियाम् ॥' इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रह-
निषेधाज्जयावधारणात्प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि ( ना०
१।६२ )—'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति वदता जयावधार-
णोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादुक्तेऽपि साक्षिभिः साध्येऽ-
परितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । एवं स्थिते यद्यभिहितवचनेभ्यः
साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा
त एव प्रमाणीकर्तव्याः; 'स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्' इत्यस्य
सर्वव्यवहारशेषत्वात् , 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं
साक्षिणो वापि पूर्वमावेदितं न चेत् ॥' ( ना० १।६२ ) इति नारदवचनाच्च ।
पूर्वनिर्दिष्टानामसम्भवे स्वनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यं;
'सम्भवे साक्षिणां प्राज्ञो वर्जयेद्दैविक क्रियाम्' इति स्मरणात् । तेषामसंभवे दिव्यं
प्रमाणीकर्तव्यम् । अतः परमपरितुष्यताप्यर्थिना न प्रमाणान्तरमन्वेषणीयमवच-
नादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन
साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपेणापरितोषस्तत्र प्रत्यर्थिनः
क्रियोपन्यासावसराभावान्सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं
कर्तव्यम् । तत्र च दोषावधारणे साक्षिणो विवादस्पदीभूतमृणं दाप्याः, सारापु-
सारेण दण्डनीयाश्च । अथ दोषानवधारणं, तदा प्रत्यर्थिना तावता संतोष्टव्यम् ।
यथाह मनुः ( ८।१०८ )— 'यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः ।
रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥' इति । एतच्च 'यस्योचुः साक्षिणः
सत्यां प्रतिज्ञां स जयी भवेत्' इत्यस्य अपरिसुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः ।
केचितु 'उक्तेऽपि साक्षिभिः साध्ये' ( व्य० ८० ) इत्येतद्वचनमर्थिना निर्दिष्टेषु
साक्षिष्वर्थ्यनुकूलमभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान्द्विगुणान्वाऽन्यान्साक्षिणः
पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते,–
तदसत्; प्रत्यर्थिनः क्रियानुपपत्तेः । तथा हि—अर्थी नाम साध्यस्यार्थस्य
१. शुद्धाच्च वाक्याद्यः शुद्धो । २. कृताः साक्षिणो । ३. तथाविधा एव
साक्षिणो ग्राह्याः । ४. प्रमाणं कर्तव्यं । ५. मनुवचनात . यमवचनात् ।
६. दोषावधारणं ।