सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 275, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 275

व्यवहाराध्यायः २१६
उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नुयात् ॥ ६२ ॥
किंच, धनदानेनाधिमोक्षणायोपस्थितस्याधिर्मोक्तव्यो धनिना, न वृद्धिलो-
भेन स्थापयितव्यः, अन्यथा अमोक्षणे स्तेनश्चौरवद्दण्ड्यः भवेत् । असंनिहिते
पुनः प्रयोक्तरि कुले तदासन्नहस्ते सवृद्धिकं धनं विधायाधमर्णकः स्वीयं बन्धकं
गृह्णीयात् ॥ ६२ ॥
भाषा—ऋणी के बन्धक छुड़ाने आने पर उसकी वस्तु दे देनी चाहिए ।
(ब्याज के लोभ से टालना नहीं चाहिए) अन्यथा चोर के समान दण्ड का
भागी होता है । जिसके पास बन्धक रखा हो उसके अनुपस्थित होने पर
ब्याज सहित धन उसके कुल के किसी दूसरे व्यक्ति को सौंप कर बन्धक प्राप्त
कर ले ॥ ६२ ॥
अथ प्रयोक्ताऽप्यसंनिहितस्तदासन्नाश्च धनस्य ग्रहीतारो न सन्ति, यदि वा
असंनिहिते प्रयोक्तर्याधिविक्रयेण धनदित्साऽधमर्णस्य तत्र किं कर्तव्यमित्यपेक्षित
आह—
तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।
तस्मिन्काले यत्तस्याधेर्मूल्यं तत्परिकल्प्य तत्रैव धनिानि तमाधिं वृद्धि-
रहितं स्थापयेन्न तत ऊर्ध्वं विवर्धते । यावद्धनी धनं गृहीत्वा तमाधिं मुञ्चति,
यावद्वा तन्मूल्यद्रव्यमृणे प्रवेशयति ॥
यदा तु द्विगुणीभूतेऽपि धने द्विगुणं धनमेव ग्रहीतव्यं, न स्वाधिनाश इति
विचारितमृणग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असंनिहिते चाऽधमर्णे
धनिना किं कर्तव्यमित्यत आह—
विना धारणिकाद्वापि विक्रीणीत ससाक्षिकम् ॥ ६३ ॥
धारणकादधमर्णाद्विना अधमर्णेऽसंनिहिते साक्षिभिस्तदासन्नैश्च सह तमाधिं
विक्रीय तद्धनं गृह्णीयाद्धनी । 'वा' शब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले
द्विगुणीभूतेऽपि धने धनमेव ग्रहीतव्यं, न स्वाधिनाश इति न विचारितं,
तदा 'आधिः प्रणश्येद् द्विगुणे' (व्य० ५८) इत्याधिनाशः । विचारिते त्वयं पक्ष
इति ॥ ६३ ॥
१. दण्ड्यो भवति । २. कल्पते तत्रैव । ३. ऊर्ध्वं धनं वर्धते ।
४. मृणिने । ५. धारणिकात् ।