याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 273, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २१७
किंच, गोप्यधिस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति । अल्पेऽप्युपभोगे
महत्यपि वृद्धिर्हातव्या; समयातिक्रमात् । तथा सोपकारे उपकारकारिणि
बलीवर्दताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते
नो वृद्धिः इति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिशिद्रभेदनादिना
पूर्ववत्कृत्वा देयः । तत्र गोप्योधिर्नष्टश्चेत्पूर्ववत्कृत्वा देयः । उपभुक्तोऽपि चेद्-
वृद्धिपि हातव्या । भोग्योधियदि १नष्टस्तदा पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे
२वृद्धिपि हातव्या। विनष्ट आत्यन्तिकं नाशं प्राप्तः, सोऽपि देयो मूल्यादिद्वारेण ।
तद्दाने सवृद्धिकं मूल्यं लभते धनी । यदा न ददाति तदा मूलनाशः; 'विनष्टे
मूलनाशः स्याद्दैवराजकृतादृते' ( १।१२६ ) इति नारदवचनात् । दैवराजकृता-
दृते-दैवमग्न्युदकदेशोपप्लवादि । दैवकृताद्विनाशाद्विना, तथा स्वापराधराहि-
त्याद्राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधमर्णेनाऽऽध्य-
न्तरं वा । यथाह-'स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते । आधिरन्योऽथ
कर्तव्यो देयं वा धनिने धनम् ॥' इति । तत्र 'स्रोतसापहत' इति दैवकृतोप-
लक्षणम् ॥ ५९ ॥
भाषा-( वृद्धि पर रखी गई ) गोप्य आधि के उपभोग किये जाने पर
वृद्धि (ब्याज) न देवे, उपकारक आधि (बैल आदि) में हानि होने पर
भी वृद्धि न दें। दैव और राजोपद्रव के विना ही बन्धक रखी हुई वस्तु नष्ट
हो जाय या खो जाय तो बन्धक रखी हुई वस्तु के समान वस्तु देवे ॥ ५९ ॥
आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् ।
यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ ६० ॥
अपि च, आधेर्भोग्यस्य गोप्यस्य च स्वीकरणादुपभोगादाधिग्रहणसिद्धि-
र्भवति, न साक्षिलेख्यमात्रेण नाप्युद्देशमात्रेण । यथाह नारदः ( १।१३८ )-
'आधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरस्योभयस्यापि भोगो
यद्यस्ति नान्यथा ॥' इति । अस्य च फलं -'आधौ प्रतिग्रहे क्रीते पूर्वा तु बल-
वत्तरा' ( व्य० २३) इति । या ४स्वीकारान्ता क्रिया सा पूर्वा बलवती, स्वी-
काररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयत्नेन रक्ष्यमाणोऽपि काल-
वशेन यद्यसारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्ततां गतस्तदाधिरन्यः
कर्तव्यः, धनिने धनं वा देयम् । 'रक्ष्यमाणोऽप्यसारताम्' इति वदता आधिः
प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् ॥ ६० ॥
१. नष्टश्चेत्तदा । २. वृद्धिर्हातव्या । ३. गोप्यस्य भोग्यस्य च ।
४. स्वीकारान्तक्रिया पूर्वा ।