सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 26, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 26

( ३० )
याज्ञवल्क्य-स्मृति में किये गये मनु-स्मृति के संक्षेप के कुछ निदर्शन निम्न-
लिखित हैं—


म० स्मृ०

(१) प्राङ्नाभिवर्धनात् पुंसो
जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य
हिरण्य-मधु-सर्पिषाम् ॥
नामधेयं दशम्यान्तु
द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्त्ते वा
नक्षत्रे वा गुणान्विते ॥
चतुर्थे मासि कर्तव्यम्
शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि
यथेष्टं मङ्गलं शुभे ॥
चूडाकर्म द्विजातीनां
सर्वेषामेव धर्मतः ।
प्रथमेऽब्दे तृतीये वा
कर्त्तव्यं श्रुति-चोदनात् ॥
२।२९-३०, ३४-३५ ॥

(२) हीन-जाति-स्त्रियं मोहात्
उद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु
स-सन्तानानि शूद्रताम् ॥
शूद्रां शयनमारोप्य
ब्राह्मणो यात्यधोगतिम् ॥
जनयित्वा सुतं तस्यां
ब्राह्मण्यादेव हीयते ॥ ३।१५, १७॥

(३) सुवासिनीः कुमारीश्च
रोगिणी गर्भिणीः स्त्रियः ।
अतिथिभ्योऽग्र एवैतान्
भोजयेदविचारयन् ॥
भुक्तवत्स्वथ विप्रेषु
स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चात्
अवशिष्टन्तु दम्पती ॥ ३।११४, ११५॥


या० स्मृति०

(१) ......एते जातकर्म च ॥
अहन्येकादशे नाम
चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्न-प्राशनं मासि
चूडा कार्या यथाकुलम् ॥
१।११-१२।।

(२) यदुच्यते द्विजातीनां
शूद्रादारोपसंग्रहः ।
नैतन्मम मतं यस्मात्
तत्रायं जायते स्वयम् ॥ १।५६॥

(३) बालः स्ववासिनी-वृद्ध-
गर्भिण्यातुर-कन्यकाः ।
सम्भोज्यातिथि-भृत्यांश्च
दम्पत्योः शेष-भोजनम् ॥ १।१०५॥