सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 248, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 248

पूर्वंतरैस्त्रिभिरिति योज्यम् । तत्रापि 'क्रमात्त्रिपुरुषागत' मित्यस्मार्तकालोपभोग-
लक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात्, द्वितीये
वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंगः । तथा सति 'स्मार्तकाले क्रिया भूमेः सा-
गमा भुक्तिरिष्यते' इति स्मृतिविरोधः, 'अन्यायेनापि यद्भुक्तम्' इत्येतच्चान्याये-
नापि भुक्तमपहर्तुं न शक्यं, किं पुनरन्यायानिश्चये इति व्याख्येयम्; 'अपि' शब्द-
श्रवणात् । यच्चोक्तं हारीतेन - 'यद्विनाऽऽगममत्यन्तं १भुक्तं पूर्वैस्त्रिभिर्भवेत् । न
तच्छक्यमपाहर्तुं क्रमात्त्रिपुरुषागतम् ॥' इति, तत्राप्यत्यन्तन्तमागमं विनेति ।
अत्यन्तमुपलभ्यमानमागमं विनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति ।
आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तम् । 'क्रमात्त्रिपुरुषागतम्'-
त्येतदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् ।
तथा हि - यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्य
स्वत्वं आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो
भोगः प्रमाणम् ? उच्यते, - प्रमाणान्तरेणावगतागमसहित एव निरन्तरो
भोगः कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे
स्वत्वं गमयितुमलम् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्व-
मनवद्यम् ॥
आगमसापेक्षो भोगः प्रमाणमित्युक्तम् , आगमस्तर्हि भोगनिरपेक्ष एव
प्रमाणमित्यत आह-
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७ ॥
यस्मिन्नागमे स्वल्पापि भुक्तिर्भोगो नास्ति तस्मिन्नागमे बलं संपूर्णं नैवा-
स्ति । अयमभिसंधिः-स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् ; परस्व-
त्वापादनं च परो यदि स्वीकरोति तदा संपद्यते, नान्यथा । स्वीकारश्च त्रिविधः-
मानसः, वाचिकः, कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु
ममेदमित्याद्यभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । २कायिकः पुनरुपादानाभिमर्श-
नादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते - 'दद्यात्कृष्णजिनं पृष्ठे गां पुच्छे
करिणं करे । केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥' इति । आश्वलायनोऽ-
प्याह- 'अनुमन्त्रयेत प्राप्यभिमृशेद्विप्राणि कन्यां च' इति । तत्र हिरण्यवस्त्रादा-
वुदकदानान्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संपद्यते । क्षेत्रादौ
पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्स्वल्पेनाप्युपभोगेन भवित-
व्यम् ; अन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिक-


१. भुक्तं पूर्वंतरैस्त्रिभिः । २. कायिकस्तु ।