याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 243, कुल 782 में से
संदर्भ में पढ़ें[Page Header]
व्यवहाराध्यायः १८७
[Main Text]
विक्रयादिस्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षोप-
भोगात्स्वत्वम् ; उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रमाणस्य च प्रमेयप्रत्यनुत्पादक-
त्वात् , रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच्च । तथा हि-स्वामी रिक्थक्रय-
संविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य वर्जितम्, निर्विष्टं वैश्य-
शूद्रयोः (गौ. २।१०, ३९-४२) इत्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति न
भोगम् । नैचेदमेव वचनं विंशतिवर्षोपभोगस्य स्वत्वापत्तिहेतुत्वं प्रतिपादयतीति
युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् ।
एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते, गौतमवचनं तु नियमार्थम् ॥
अपि च 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डये-
त्पृथिवीपतिः ॥' इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । नच 'अनागमं
तु यो भुङ्क्ते' इत्येतत्परोक्षभोगविषयम्, 'पश्यतोऽब्रुवत' इति प्रत्यक्षभोगविषय-
मिति युक्तं वक्तुम् । 'अनागमं तु यो भुङ्क्ते' इत्यविशेषाभिधानात्, नोपभोगे बलं
कार्यमाहत्र्रा तत्सुतेन वा । पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः ॥' इति
कात्यायनवचनाच्च । समत्त्वभोगे च हानिकारणाभावेन हानेरसंभवात् । न चैत-
न्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन भूविषये
विंशतिवर्षोपभोगयुक्तायाः, धनविषये दशवर्षोपभोगयुक्तायाः, उत्तरस्याः क्रियायाः
प्राबल्यमनेनोच्यत इति । यतस्तेषूत्तरैव क्रिया तत्त्वतो नोपपद्यते, स्वैमेव ह्याधेयं
देयं विक्रेयं च भवति । न चाहिप्तस्य दत्तस्य विक्रोतस्य वा स्वत्वमस्ति । ५अस्वत्व-
दाने प्रतिग्रहे च दण्डः स्मर्यते— 'अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति ।
उभौ तौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥' इति । तथाऽऽध्यादीनां त्रया-
णामपवादत्वेऽस्य श्लोकस्याधिसिमादीनामुत्तरश्लोकेऽपवादो नोपपद्यते । तस्मा-
द्भूष्यादीनां हानिरनुपपन्नैव; नापि व्यवहारहानिः, यतः- 'उपेक्षां कुर्वतस्तस्य
तूष्णींभूतस्य तिष्ठतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिद्ध्यति ॥' इति नार-
देनोपेक्षालिङ्गाभावकृता व्यवहारहानिरुक्ता, मत्व वस्त्वभावकृता । तथा मनुनापि
(८।१४८)-'अजडश्चेदपौगण्डो विषयेँश्चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्ध-
नमर्हति ॥' इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश्चैव-भोक्ता
किल वदति 'अजडोऽयमपौगण्डोऽबालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं
मया भुक्तं, तत्र बहवः साक्षिणः सन्ति; यद्यस्य स्वमन्वायेन मया भुज्यते तदायं
किमित्येतावन्तं कालमुदास्ते' इति, तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तर-
[Footnotes]
१. विजितं । विनिर्जितम् । २. नचेदं वचनं । ३. उत्तरविषयक्रियायाः ।
४. स्वत्वविशिष्टमेव-स्वयमेव । ५. अस्वश्वस्य । ६. विषये चास्य
भुञ्जते । ७. समत्वेनापवादासम्भवात् ।