सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 240, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 240

१८४                                 याज्ञवल्क्यस्मृतिः

शास्त्रेण हनन्न दण्डभाक्' इत्युक्तवा तस्यार्थवादार्थमिदमुच्यते 'गुरुं वा बालवृद्धौ
वा' इत्यादि । गुर्वादीनत्यन्तावध्यानप्यात्ततायिनो हन्यात्किमुतान्यानिति ।
'वा'शब्दश्रवणात् 'अपि वेदान्तपारगम्' इत्यत्र 'अपि'शब्दश्रवणान्न गुर्वादीनां
वध्यत्वप्रतीतिः; 'नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात्' इति सुमन्तुवच-
नाच्च, 'आचार्यं च प्रवक्तारं मातरं पितरं गुरुम् । न हिंस्याद् ब्राह्मणान्गाश्च
सर्वांश्चैव तपस्विनः ॥' इति ( ४।१६२ ) मनुवचनाच्च । आचार्यादीनामा-
ततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा; हिंसामात्रप्रतिषेधस्य सामान्य-
शास्त्रेणैव सिद्धत्वात् । 'नाततायिवधे दोषो हन्तुर्भवति कश्चन' इत्येतदपि
ब्राह्मणादिव्यतिरिक्तविषयमेव । यतः 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥' यथा—'उद्यतासिविषाग्निश्च शापोद्यत-
करस्तथा । आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी च
रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानैवाततायिनः ॥ इति सामान्ये-
नाततायिनो दर्शिताः । अतश्च ब्राह्मणादय आततायिनश्च आत्मादित्राणार्थं
हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपद्येरंस्तत्र लघु प्रायश्चित्तं
राजदण्डाभावश्चेति निश्चयः । तस्मादन्यदिहोदाहरणं वक्तव्यम् । तदुच्यते,—
'हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्तौ' (आ० ३५१)
इत्यर्थशास्त्रम् ।—'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' ( व्य० १ ) इति
धर्मशास्त्रम् । तयोः क्वचिद्विषये विरोधो भवति । यथा—'चतुष्पाद्व्यवहारे
प्रवर्तमाने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति, न धर्मशास्त्रमनुसृतं
भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति, मित्रलब्धि-
र्विपरीता, तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् । अत एव 'धर्मार्थसंनिपाते अर्थ-
ग्राहिण एतदेव' इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति
द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २१ ॥

    भाषा—जब दो स्मृतियों ( धर्मशास्त्र के वचनों ) में परस्पर विरोध हो
तो व्यवहार से दिया गया न्याय बलवान् होता है । अर्थशास्त्र की अपेक्षा
धर्मशास्त्र का प्रमाण अधिक सबल होता है, ऐसी ही व्यवस्था है ॥ २१ ॥

    'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' ( व्य० ७ ) इत्युक्तं, किं तत्सा-
धनमित्यपेक्षित आह—
        प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् ।
        एषामन्यतमाभावे दिव्यान्द्यतममुच्यते ॥ २२ ॥
    प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच्च द्विविधं-मानुषं दैविकं चेति ।
तत्र मानुषं प्रमाणं त्रिविधं-लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं मह-


१. चतुर्णाङ्ग ।         २. मानवं ।