याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
DevanagariSanskritpublished782 पृष्ठ
पृष्ठ 237, कुल 782 में से
संदर्भ में पढ़ेंपृष्ठ 237शतम्, अन्यस्तु पञ्चाशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यौ ।
शतम्, अन्यस्तु पञ्चाशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यौ ।
‘सपणश्चेद्विवादः स्यात्’ इति वदता पणरहितोऽपि विवादो दर्शित इति ॥ १८ ॥
भाषा—यदि सपण (शर्त लगाकर) विवाद हो रहा हो और पण की
प्रतिज्ञा करने वाला हारता है तो उससे प्रतिज्ञात धन (राजा) दिलावे । वे
दोनों ही यदि कम और अधिक धन की शर्त लगावें तो पराजय स्वीकार
करने वाले से पण दिलवाये और धन के अधिकारी को धन दिलवाये ॥ १८ ॥
छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ १९ ॥
किंच, छलं प्रमादाभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्त्वानुसारेण
व्यवहारान्नयेदन्तं नृपः । यस्माद् भूतमपि वस्तुतत्त्वमपि अनुपन्यस्तमनभिहितं
हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद् भूतानु-
सरणं कर्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना
यतितव्यं सामादिभिरुपायैः । तथा सति साक्ष्यादिनिरपेक्ष्येणैव निर्णयो भवति ॥
अथ सर्वथापि भूतानुसरणं न शक्यते कर्तुं, तथा सति साक्ष्यादिभिर्निर्णयः
कार्य इत्यनुकल्पः । यथोक्तम्- 'भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥' इति । तत्र भूतानुसारी व्यवहारो
मुख्यः, छलानुसारी स्वनुकल्पः । साक्षिलेख्यादिभिर्व्यवहारनिर्णये कदाचिद्वस्त्व-
नुसरणं भवति, कदाचिन्न भवति; साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥१९॥
भाषा—छल (प्रमाद से कही हुई बात) को छोड़कर राजा वस्तुस्थिति
के अनुसार व्यवहारों का निर्णय करे । सच्ची बात होने पर भी उसे न कहने
पर व्यवहार में पराजित ही होता है ॥ १९ ॥
'भूतमप्यनुपन्यस्तं हीयते व्यवहारतः' (व्य० १९) इत्यत्रोदाहरणमाह—
निह्नुते³ लिखितं नैकमेकदेशे विभावितः ।
दाप्यः सर्वं नृपेणार्थे न ग्राह्यस्त्वनिवेदितः ॥ २० ॥
नैकमनेकं सुवर्णरजतवस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्वमेव
निह्नुतेऽपजानीते तदर्थिनैकदेशे हिरण्ये साक्षादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः
सर्वं रजताद्यर्थं पूर्वलिखितं दाप्योऽर्थिने नृपेण । न ग्राह्यस्त्वनिवेदितः 'पूर्वं
भाषाकाले अनिवेदितः पश्चादर्थिना पूर्वं मया विस्मृतः' इति निवेद्यमानो
१. तस्मात् । २. तत्त्वार्थयुक्तं यत्प्रमादाभि । ३. निह्नवे लिखि-
तेऽनेकमेकदेशविभा ।