सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 231, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 231

व्यवहाराध्यायः १७५
अभियुक्त इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनम-
भियोक्तारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि प्रत्यवस्कन्दनं
प्रत्यभियोगरूपं तथापि स्वापराधपरिहारात्मकत्वान्नास्य प्रतिषेधविषयत्वम् ।
अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनम-
धिकृत्योक्तम् ॥-
अथ अर्थिनं प्रत्याह-
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥
अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी
नाभियोजयेत् । किं च, उक्तमावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न
नयेत् न प्रापयेत् । एतदुक्तं भवति-यद्वस्तु येन रूपेणावेदनसमये निवेदितं
तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं, नान्यथेति ॥ ननु 'प्रत्यर्थिनोऽग्रतो लेख्यं
यथावेदितमर्थिना' ( व्य० ६ ) इत्यत्रैवेदमुकं, किमर्थं पुनरुच्यते 'नोक्तं विप्रकृतिं
नयेत्' इति ? उच्यते, - 'यथावेदितमर्थिना' ( व्य० ६ ) इत्यनेनाऽऽवेदनसमये
यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयम् । एकस्मिन्नपि पदे न
वस्त्वन्तरमित्युक्तम् । यथा- 'अनेन रूपकशतं वृद्ध्या गृहीतम्' इत्यावेदनसमये
प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये 'वस्त्रशतं वृद्ध्या गृहीतम्' इति न
वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः
स्यादिति 'नोक्तं विप्रकृतिं नयेत्' इत्यनेनैकवस्तुत्वेऽपि पदान्तरगमनं निषिद्धयते ।
यथा 'रूपकशतं वृद्ध्या गृहीत्वाऽयं न प्रयच्छति' इत्यावेदनकालेऽभिधाय
भाषाकाले 'रूपकशतं बलादपहृतवान्' इति वदतीति । तत्र वस्त्वन्तरगमनं
निषिद्धम् , इह तु पदान्तरगमनं निषिद्धयत इति न पौनरुक्त्यम् । एतदेव
स्पष्टीकृतं नारदेन- 'पूर्वपादं परित्यज्य योऽन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो
हीनवादी स वै नरः ॥' इति । हीनवादी दण्डयो भवति, न प्रकृतार्थाद्धीयते ।
अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारार्थमेवायम् 'अभियोगमनिस्तीर्य' इत्याद्यु-
पदेशो न प्रकृतार्थसिद्धयसिद्विविषयः । अत एव वक्ष्यति ( व्य० १९ ) 'छलं
निरस्य भूतेन व्यवहारान्नयेन्नृपः' इति । एतच्चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते
तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धीयत एव । यथाह नारदः-
'सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न
हीयते ॥' इति । अस्यार्थः- सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादा-
भिधानेऽपि नावसीदति न पराजीयते । न प्रकृतार्थाद्धीयत इत्यर्थः । अत्रोदा-
हरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादाने प्रमादाभिधानेन दण्ड्योऽपि यथा प्रकृता-