सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 229, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 229

व्यवहाराध्यायः १७३

प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमैनैकदेशस्य मिथ्यात्वम्—यथा ‘सत्यं रूपकशतं
गृहीतं न धारयामि, प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेश-
स्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच्च हारीतेन स्पष्टमुक्तम्—'मिथ्या-
कारणयोर्वापि ग्राह्यं कारणमुत्तरम्' इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वं
यथा—'रूपकशतं धारयती'त्यभियोगे, 'मिथ्यैतदस्मिन्नर्थे पूर्वमयं पराजितः'
इति । अत्रापि प्रतिवादिन एव क्रिया; 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशे-
त्क्रियाम्' इति वचनात् , शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात्, संप्रति-
पत्तेरपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणा-
देवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः यथा—'शतमनेन गृहीत'मित्य-
भियुक्तः प्रतिवदति 'सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं
पराजितः' इति । तत्र प्रतिवादिनो यथारुचीति न क्वचिद्वादिप्रतिवादिनोरेक-
स्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥

एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या-
दित्यपेक्षित आह—

ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥

तत उत्तरानन्तरम् , अर्थी साध्यवान् सद्य एवानन्तरमेव प्रतिज्ञातार्थ-
साधनं लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं
साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र 'सद्यो लेखयेत्' इति वदतोत्तराभिधाने
कालविलम्बनमप्यङ्गीकृतमिति गम्यते । तच्चोत्तरत्र विवेचयिष्यते । अर्थी
प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं
लेखयेदित्युक्तं, अतश्च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात्प्रत्यर्थ्येवार्थी
जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साध्यत्वात्कारण-
वाद्येवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्येवार्थी स एव साधनं
निर्दिशेत् । ततोऽर्थी लेखयेदिति वदता अर्थ्येव लेखयेन्नान्य इत्युक्तम् । अतश्च
संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरवादिनोर्द्वयोरप्यर्थित्वाभावात्साधननिर्देश
एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन
स्पष्टमुक्तम्—'प्राङ् न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथोक्तौ
पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति ॥ ७ ॥

भाषा—प्रत्यर्थी द्वारा सुनी हुई बात और उसका उत्तर अर्थी की
उपस्थिति में लिखावे । (उत्तर के बाद) अर्थी अभियोग को सिद्ध
करने वाला प्रमाण तत्काल लिखावे ॥ ७ ॥