सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 219, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 219

व्यवहाराध्यायः
साधारणव्यवहारमातृकाप्रकरणम्
अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः। तच्च दुष्टनिग्रह-
मन्तरेण न संभवति। दुष्टपरिज्ञानं च न व्यवहारदर्शनमन्तरेण संभवति।
तच्चव्यवहारदर्शनमहरहः कर्तव्यमित्युक्तं (आ० ३६०)—'व्यवहारान्नृपः
पश्येत्सभ्यैः परिवृतोऽन्वहम्' इति। स च व्यवहारः कीदृशः, कतिविधः, कथं
चेतीतिकर्तव्यताकलापो नाभिहितः, तदभिधानाय द्वितीयोऽध्यायः प्रारभ्यते—
व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ १ ॥
व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः ।
यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति ।
तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु
प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्म-
विशेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्मणैर्न क्षत्रिया-
दिभिः । 'ब्राह्मणैः सह' इति तृतीयानिर्देशादेषामप्राधान्यम् । 'सहयुक्तेऽप्रधाने'
( पा. २।३।१९ ) इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न
ब्राह्मणानाम् । यथाह मनुः ( ८।१२८ )—'अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवा-
प्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥' इति । कथम् ? धर्मशा-
स्त्रानुसारेण, नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य
धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथा च वक्ष्यति (व्य० १८६)—'निजधर्मा-
विरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥'
इति क्रोधलोभविवर्जित इति । 'धर्मशास्त्रानुसारेण' इति सिद्धे 'क्रोधलोभवि-
वर्जितः' इति वचनमादरार्थम् । क्रोधोऽमर्षः, लोभो लिप्सातिशयः ॥ १ ॥
भाषा—राजा क्रोध और लोभ त्यागकर (नीति के) विद्वान् ब्राह्मणों
के साथ धर्मशास्त्र के अनुसार व्यवहारों (वादों, मुकदमों) पर विचार
करे ॥ १ ॥
१. दर्शनेन विनेति व्यवहारदर्शनं । २. चापिगच्छति ।
११ या०