सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 212, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 212

१५६ याज्ञवल्क्यस्मृतिः
यस्मात् हिरण्यभूमित्रलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्त्यै यतेत
यत्नं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वा-
न्मित्रलाभस्य ॥ ३५२ ॥
भाषा—सुवर्ण भूमि के लाभ से मित्र की प्राप्ति उत्कृष्ट है । अतः
एव मित्र की प्राप्ति के लिए यत्न करना चाहिए और सावधान होकर सत्यता
की रक्षा करनी चाहिए ॥ ३५२ ॥
इदानीं राज्याङ्गान्याह—
१स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥
'महोत्साह' ( आ० ३०९ ) इत्याद्युक्तलक्षणो महीपतिः स्वामी, अमात्याः
मन्त्रिमपुरोहितादयः, जनो ब्राह्मणादिप्रजाः, दुर्गं धन्वदुर्गादि, कोशः सुवर्णादि-
धनराशिः, दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिम-
प्राकृतानि, एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं
सप्ताङ्गमुच्यते ॥ ३५३ ॥
भाषा—राजा, अमात्य ( मन्त्री, पुरोहित आदि ), प्रजा, दुर्ग, कोश,
दण्ड ( सेना ) और मित्र—ये राज्य के मूल कारण हैं; अतः राज्य को सप्ताङ्ग
कहा जाता है ॥ ३५३ ॥
तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ ३५४ ॥
तदेवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसकादिषु
नृपो दण्डं पातयेत् प्रयोजयेत् हि यस्माद्धर्म एव दण्डरूपेण पूर्वं ब्रह्मणा निर्मितः।
तस्य च दण्ड इति यौगिकी संज्ञा—'दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्'
( ११।१२८ ) इत्यादिगौतमस्मरणात् ॥ ३५४ ॥
भाषा—इस प्रकार का राज्य प्राप्त करके राजा दुराचारियों अर्थात्
अपराधियों को दण्ड देवे; क्योंकि आदि काल में ब्रह्मा ने दण्ड के रूप में
धर्म की ही सृष्टि की है ॥ ३५४ ॥
स २नेतुं न्यायतोऽशक्यो ३लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता ॥ ३५५ ॥
१. स्वाम्यमात्यौ । २. न्यायतः शक्यो ( =न्यायतो यथाशास्त्रं नेतुं प्रणेतुं
शक्यः) । ३. ऽलुब्धेन कृतबुद्धिना ( = अलुब्धेन न्यायधनव्ययकारिणा कृत-
बुद्धिना लब्धप्रज्ञेन ) ।