सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 174, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 174

११८ याज्ञवल्क्यस्मृतिः

पात्रों में (तीन भाग करके) छोड़े। शेष कर्म पहले के समान ही करे। इस
कर्म को सपिण्डीकरण कहते हैं। एकोद्दिष्ट कर्म स्त्री के लिए भी किया
जाता है ॥ २५३-२५४ ॥
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥ २५६ ॥
संवत्सरादर्वाक् सपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं
वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुम्भसहितं ब्राह्मणाय दद्यात् । 'अर्वाक्सं-
वत्सरात्' इति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग्वेति दर्शितम् । यथा-
ह्याश्वलायनः (०।३।११)—'अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा' इति ।
कात्यायनोऽप्याह (३।३।११)—'ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा
यदहर्वा वृद्धिरापद्येत' इति । द्वादशाहे, त्रिपक्षे, वृद्धिप्राप्तौ, संवत्सरे वेति चत्वारः
पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साग्निकेन कार्यम्; सपिण्डी-
करणं विना पिण्डपितृयज्ञासिद्धेः, 'साग्निकस्तु यदा कर्ता प्रेतो वाऽप्यग्निमान्भवेत् ।
द्वादशाहे तदा कार्यं सपिण्डीकरणं पितुः ॥' इति वचनात् । निरग्निकस्तु त्रिपक्षे
वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा षोडश-
श्राद्धानि कृत्वा सपिण्डीकरणं कार्यम्, उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि
कर्तव्यानीति संशयः; उभयथा वचनदर्शनात् , 'श्राद्धानि षोडशादत्त्वा नैव कुर्या-
त्सपिण्डताम् । श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ॥' इति । षोडशश्रा-
द्धानि च—'द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके । श्राद्धानि षोडशैतानि
संस्मृतानि मनीषिभिः ॥' इति दर्शितानि । तथा—'यस्यापि वत्सरादर्वाक्स-
पिण्डीकरणं भवेत् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥' इति । तत्र
सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानीति प्रथमः कल्पः, अप्राप्तकाल-
त्वेन प्रागनधिकारात् । यद्यपि वचनं—'षोडशश्राद्धानि कृत्वैव सपिण्डीकरणं संव-
त्सरात्प्रागपि कर्तव्यम्' इति, सोऽयमापत्कल्पः यदा त्वापत्कल्पत्वेन प्राक्सपि-
ण्डीकरणात् प्रेतश्राद्धानि करोति, तदेकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्य-
कल्पेन स्वकाल एव करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्वणमेकोद्दिष्टं वा
तथा मासिकानि कुर्यात् ; 'सपिण्डीकरणादर्वाक्कुर्वन् श्राद्धानि षोडश । एकोद्दिष्ट-
विधानेव कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः ।
प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥' इति स्मरणात् । एतच्च प्रेतश्रा-
द्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्वप्येकेनैव कृतेनालं, न
सर्वैः कर्तव्यम्; 'नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु


१. दद्याद्वर्षं द्विजन्मने ।
२. करणं भवेत् ।
३. द्यते तदेति ।