याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 148, कुल 782 में से
संदर्भ में पढ़ें६२ याज्ञवल्क्यस्मृतिः
अपात्रे दातुर्निषेधमुक्त्वा प्रतिग्रहीतारं प्रत्याह—
विद्यातपोभ्यां हीनेन नै १ तु ग्राह्यः प्रतिग्रहः ।
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥ २०२ ॥
विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर्न ग्राह्यः । यस्माद्विद्यादिहीनः
प्रतिगृह्णन् दातारमात्मानं चाधो नरकं नयति प्रापयतीति ॥ २०२ ॥
भाषा—जो व्यक्ति विद्यासम्पन्न और तपस्वी न हो उसे दान नहीं लेना
चाहिए । यदि ऐसा ( विद्या और तपस्या से हीन ) व्यक्ति दान लेता है तो वह
अपने को और दाता को भी नरक में डालता है ॥ २०२ ॥
गवादि पात्रे दातव्यमित्युक्तं तत्र विशेषमाह—
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ २०३ ॥
प्रतिदिवसं शक्त्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन
दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतोऽधिकं यत्नेन दातव्यम् ।
याचितेनापि श्रद्धापूतमनसूयापवित्रीकृतं शक्त्या दातव्यम् । 'याचितेनापि
दातव्यम्' इति वदता यथोक्तं पात्रं स्वयमेव गत्वा आहूय वा यद्दानं तन्महाफल-
मुक्तम् । तथा च स्मरणम्—'गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् ।
सहस्रगुणमाहूय याचिते तु तदर्द्धकम्' इति ॥ २०३ ॥
भाषा—( शक्ति के अनुसार ) प्रतिदिन ( गौ आदि ) पात्र को दान देना
चाहिए । ( चन्द्रग्रहण या सूर्यग्रहण जैसे ) अवसर पर विशेष रूप से दान
देना चाहिए । माँगने पर भी ( सत्पात्र को ) श्रद्धा के साथ यथाशक्ति दान देना
चाहिए ॥ २०३ ॥
गवादिकं देयमित्युक्तं तत्र गोदाने विशेषमाह—
हेमशृङ्गी शफै ३रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ २०४ ॥
हेममये शृङ्गे यस्याः सा हेमशृङ्गी । शफैः खुरैः रौप्यैः राजतैः संयुता वस्त्रेण
च संयुता कांस्यपात्रसहिता बहुक्षीरा४ सुशीला गौर्यथाशक्तिदक्षिणासहिता
दातव्या ॥ २०४ ॥
भाषा—सोने से सींग और चांदी से खुर मढ़ाकर, वस्त्र ओढ़ाकर दूध
देने वाली सीधी गाय, कांसे के दुग्धपात्र एवं दक्षिणा के साथ दान देना
चाहिए ॥ २०४ ॥
१. नैव । २. पूतं च शक्तितः । ३. खुरै रूप्यैः । ४. बहुक्षीरा गौर्यथा ।