याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 144, कुल 782 में से
संदर्भ में पढ़ें८८ याज्ञवल्क्यस्मृतिः
रश्मयः सूर्यादेः प्रकाशकद्रव्यस्य । अग्निः प्रसिद्धः । रजः अजादिसम्बन्ध-
व्यतिरेकेण । तत्र—'श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंसर्शा-
दायुर्लक्ष्मीश्च हीयते ॥' इति दोषश्रवणात्तत्स्पर्शे संमार्जनादि कार्यम् । छाया
वृक्षादेः, गौः, अश्वः, वसुधा भूमिः, अनिलो वायुः, विप्रुषोऽवश्यायबिन्दवः,
मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च, एते चण्डालादिस्पृष्टा अपि स्पर्शे
शुचयः । वत्सः प्रस्स्रवने ऊधोगतदुग्धापकर्षणे शुचिः । 'वत्स'ग्रहणं बालस्योप-
लक्षणार्थम्, 'बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किञ्चिच्छिष्यं
मेध्यमिति स्थितिः ॥' इति वचनात् ॥ १९३ ॥
भाषा—( सूर्य आदि की ) किरणें, अग्नि, (अजादी से अछूती) धूल,
छाया, गाय, अश्व, पृथ्वी, वायु बाष्प और मक्खी (चण्डाल आदि से स्पृष्ट
होने पर भी) शुद्ध होते हैं, तथा दूध दुहते समय बछड़ा पवित्र
होता है ॥ १९३ ॥
अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुद्ध्यन्ति सोमसूर्यांशुमारुतैः ॥ १९४ ॥
अजाश्वयोर्मुखं मेध्यम् । न गोः, न नरजा मलाः, 'नर'शब्दो लक्षणया
देहमभिधत्ते । तज्जा मला वसादयो मेध्या न भवन्ति । पन्थानो मार्गाः
चण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुद्धयन्ति । दिवा तु
सूर्याशुभिर्मारुतेन च ॥ १९४ ॥
भाषा—बकरे तथा घोडे का मुख शुद्ध होता है, गौ का मुख नही ।
मनुष्य शरीर से निकले हुए मल अशुद्ध होते हैं । (कुत्ता, चाण्डाल आदि के
संसर्ग पर) मार्ग चन्द्रमा या सूर्य की किरणों और वायु के सम्पर्क से शुद्ध
होता है ॥ १९४ ॥
मुखजा विप्रुषो मेध्यास्तथाऽऽचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ १९५ ॥
मुखे जाता मुखजाः श्लेष्मविप्रुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपत्तिता-
श्चेदङ्गे । 'न मुखविप्रुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति' इति गौतम-
वचनात् । तथा च ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्याः । श्मश्रु-
बाह्यगतं मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं
त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमम्³ । तथा च गौतमः—'दन्तश्लिष्टं तु
१. अजाश्वं मुखतो मेध्यं । २. पन्थानस्तु । ३. दन्तेभ्यः पतितं त्यजति
गिलति वाऽप्यतावता शुद्ध्यति विना आचमनं इति ।