याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 140, कुल 782 में से
संदर्भ में पढ़ेंHere is the complete transcription of the provided image in Devanagari script:
८४ याज्ञवल्क्यस्मृतिः
इदानीं भूशुद्धिमाह-
भूर्शुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा ।
सेकादुल्लेलनाल्लेपाद्गृहं मार्जनलेपनात् ॥ १८८ ॥
मार्जन्यां पांसुतृणादीनां प्रोत्सारणं मार्जनम् । दाहस्तृणकाष्ठाद्यैः । कालो
यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम्,
सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा, उल्लेखनं तक्षणं खननं वा, लेपो
गोमयादिभिः, एतैः समस्तैर्व्यस्तैर्वा मार्जनादिभिरमेध्या दुष्टा मलिना च भूमिः
शुद्ध्यति । तथा च देवलः- 'यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा । चण्डा-
लाध्युषितं यत्र यत्र विष्ठादि'संहतिः ॥ एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता ।
श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां ब्रजेत् । अङ्गारतुषकेशास्थिभस्माद्यैर्मलिना भवेत् ॥'
इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेस्त्रैविध्यमभिधाय शुद्धिविभागं दर्शयति-
'पञ्चधा वा चतुर्धा वा भूरमेध्यापि २ शुद्ध्यति । दुष्टाण्विता त्रिधा द्वेधा शुद्ध्यते
मलिनैकधा ॥' इति । यत्र मनुष्या दह्यन्ते यत्र चाण्डालैरध्युषितं तत्रै पञ्चभि-
र्दहनकाल गोक्रमणसेकोल्लेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र च म्रियन्ते यत्र
चात्यन्तं विष्ठादिसंहतिः तासां दाहवर्जितैस्तैरेव चतुर्भिः । श्वसूकरखरैश्चिरकाल-
मप्युषितायाः गोक्रमणसेकोल्लेखनैस्त्रिभिः । उष्ट्रग्रामकुक्कुटादिभिश्चिरकालमधिवासि-
तायाः सेकोल्लेखनाभ्यां शुद्धिः । अङ्गारतुषकेशादिभिश्चिरकालमधिवासिताया
उल्लेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयेते । एवं गृहं मार्जनलेपनाभ्यां
शुद्ध्यति । गृहस्य पृथगुपादानं संमार्जनलेपनयोः प्रतिदिनसं प्राप्त्यर्थम् ॥ १८८ ॥
भाषा-पृथ्वी की शुद्धि ( झाडू आदि से ) झाड़ने, जलाने, समय
बीतने, गाय के पैर पड़ने, (दूध, गोमूत्र, और जल ) छिड़कने, खोदने,
गोबर आदि से ) लीपने से होती है। इसी प्रकार घर झाड़ने और लीपने से
शुद्ध होता है ॥ १८८ ॥
गोघ्रातेऽन्न तथा केशमक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वाऽपि प्रक्षेप्यव्यं विशुद्धये ॥ १८९ ॥
गोघ्राते गोनिःश्वासोपहतेऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीट-
दूषिते । 'केश' ग्रहणं लोमादिप्राप्त्यर्थम् । कीटाः पिपीलिकादयः । उदकं भस्म
मृद्वा यथासंभवं प्रक्षेप्सव्यं शुद्धयर्थम् । यत्तु गौतमेनोक्तम् ( १७।८-९)-
'नित्यमभोज्यं केशकीटावपन्नम्' इति तत्केशकीटादिभिः सह यत्पक्कं तद्विष-
यम् ॥ १८९ ॥
१. संगतिः । २. विशुद्ध्यति । ३. तस्याः पञ्चका, तयोः पञ्च ।