याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 134, कुल 782 में से
संदर्भ में पढ़ें७८ याज्ञवल्क्यस्मृतिः
दर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डादयो भक्ष्याः । सिंहतुण्डः सिंहमुखः,
रोहितो लोहितवर्ण, पाठीनश्चन्द्रकाख्यः, राजीवः पद्मवर्णः, सह शल्कैः शुक्त्या-
कारैर्वर्तत इति सशल्कः। एते च सिंहतुण्डादयो १नियुक्ता एव भक्ष्याः । 'पाठीन-
रोहितावाद्यौ नियुक्तौ हव्यकव्ययोः। राजीवाः सिंहतुण्डीश्च सशल्काश्चैव
सर्वशः ॥' इति ( ५।१६ ) मनुस्मरणात् । 'द्विजाति'ग्रहणं शूद्रव्युदासार्थम् ॥१७७॥
भाषा—सेधा ( सेंधुआार ), गोधा ( गोह ), कछुश्रा शल्लक ( साही ) और
खरगोश ये पञ्चनख ( पंजे वाले ) जीव भक्षण करने योग्य होते हैं । मछलियों में
भी सिंही, रोहित ( रोहू ) पाठीन, राजीव ( पद्म के समान रंग वाली )
और सशल्क ( शुक्ति के आकार वाली ) द्विजातियों के लिये भक्ष्य
होती है ॥ १७७ ॥
'अनर्चितं वृथामांसम्' ( आ. १६७) इत्यारभ्य द्विजातिधर्मानुक्त्त्वेदानीं
२चातुर्वर्ण्यधर्मानह—
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १७८ ॥
मांसस्य प्रोक्षितादेर्भक्षणे तद्व्यतिरिक्तस्य वा निषिद्धस्य वर्जने प्रोक्षितादि-
व्यतिरेकेण मांसं न भक्षयामीत्येवं सङ्कल्परूपेण विधिं सामश्रवः प्रभृतयः हे
मुनयः ! शृणुध्वम् ॥ १७८ ॥
भाषा—अब मांस के भक्षण एवं त्याग का नियम सुनें ॥ १७८ ॥
तत्र भक्षणे विधिं दर्शयति—
प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ १७९ ॥
अन्नाभावेन ३व्याध्यभिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति,
तदा मांसं नियमेन भक्षयेत् । 'सर्वत एवात्मानं गोपायेत्' इत्यात्मरक्षाविधानात् ।
'३तस्मादुह न पुरायुषः स्वः कामी प्रेयात्' इति मरणनिषेधाच्च । तथा श्राद्धे
मांसं निमन्त्रितो नियमेन भक्षयेत्, अभक्षणे दोषश्रवणात्, 'यथाविधि
नियुक्तस्तु यो मांसं नात्ति मानवः । स प्रेत्य पशुनां याति संभवानेक-
विंशति ॥' ( ५।३५) इति मनुस्मरणात् । प्रोक्षणाख्यश्रौतसंस्कारसंस्कृतस्य
पशोर्यागार्थस्याग्नीषोमीयादेर्हुतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत्, अभक्षणे ४
यागानिष्पत्तेः । द्विजकाम्यया ब्राह्मणभोजनार्थं देवपित्रर्थं च यत्सादितं तेन
तानभ्यर्च्यविशिष्टं भक्षयन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि; 'यज्ञार्थं
ब्राह्मणेर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्यर्थमगस्त्यो ह्याचरत्पुरा५ ॥'
१. नियुक्तस्यैव । २. चातुर्वर्ण्यं प्रत्याह । ३. तस्मादिह । ४. अभक्षणाद्यागा ।
५. ह्याचरत्तथा ।