सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 116, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 116

६० / याज्ञवल्क्यस्मृतिः
असत्य ( तथा अश्लील ) वचन भी न बोले; चोर न बने एवं ( निषिद्ध ) व्याज से
वृत्ति न चलावे ॥ १३२ ॥
दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १३३ ॥
किञ्च, दाक्षायणं सुवर्णम्, १तदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं
तदस्यास्तीति ब्रह्मसूत्री, वैणवयष्टिमान्, कमण्डलुमान्, 'स्यात्' इति सर्वत्र
सम्बन्धनीयम् । अत्र च ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं
द्वितीयप्राप्त्यर्थम् । यथाह वसिष्ठः—'स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥' इति । अत्र च दाक्षायणीति
सामान्याभिधानेऽपि कुण्डलधारणमेव कार्यम्, 'वैष्णवीं धारयेद्यष्टिं सोदकं च
कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥' ( ४।३६ ) इति मनु-
स्मरणात् । तं२दा देवं देवप्रतिमाम्, मृदं तीर्थादुद्धृतां, गां, ब्राह्मणं, वनस्पतिं
अश्वत्थादिकं प्रदक्षिणं कुर्यात् । एतान्प्र३दक्षिणतः कृत्वा प्रब्रजेदित्यर्थः । एवं
चतुष्पथादीनपि 'मृदं गां देवतां विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत
प्रज्ञातांश्च वनस्पतीन् ॥' ( ४।३९ ) इति मनुस्मरणात् ॥ १३३ ॥
भाषा—सदैव दाक्षायण ( सोने का कुण्डल ), यज्ञोपवीत, डंडा और
कमण्डलु लिये रहे। देवमूर्ति, ( तीर्थ की ) मिट्टी, गाय, ब्राह्मण और ( पीपल
आदि ) वृक्षों की परिक्रमा करे ॥ १३३ ॥
न तु मेहेन्नदीछायावर्त्मगोष्ठाम्बुभस्मसु ।
न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १३४ ॥
नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्यात्, एवं श्मशानादावपि । यथाह
शङ्खः—'न गोमयकृष्टशष्पशाद्वलचितिश्मशानवल्मीकवर्त्मखलगोष्ठबिलपर्वतपुलिनेषु
मेहेत्, भूताधारत्वात्' इति । तथाग्न्यादीन्प्रति अग्न्यादीनामभिमुखं न
मेहेत्, नाप्येतान्पश्यन् । यथाह गौतमः ( ९।१२ )—'न वाय्वग्निविप्रादित्या-
पोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्याम्युदस्येत्, न देवताँः प्रति पादौ
प्रसारयेत्' इति । एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रं७पुरीषे
कुर्यादिति । यथाह वसिष्ठः—'परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे
कुर्यात्' इति ॥ १३४ ॥


१. तद्वान्, तद्धारणात् । २. एवं देवं देवताचीं । ३. प्रदक्षिणतः ।
४. प्रत्यर्काग्निगो । ५. श्मशानवल्मीक । ६. नैतान् प्रति । ७. मेहनं कार्यं ।