सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 103, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 103

आचाराध्यायः ४७
च शनकैर्निक्षिपेद्भुवि ॥' इति । एतच्च सायं प्रातः कर्तव्यम् । 'अथ सायं प्रातः
सिद्धस्य हविष्यस्य जुहुयात्' ( १।२।१ ) इत्याश्वलायनस्मरणात् । इह केचिद्वैश्व-
देवाख्यस्य कर्मणः पुरुषार्थत्वमन्नसंस्कारकर्मत्वं चेच्छन्ति—'अथ सायं प्रातः
सिद्धस्य हविष्यस्य जुहुयात्' इत्यन्नसंस्कारकर्मकता प्रतीयते । 'अथातः पञ्च
यज्ञाः' ( गृ. सू. ३।१।१ ) इत्युपराक्रम्य 'तानेतान्यज्ञानहरहः कुर्वीत'
( ३।१।४ ) इति नित्यत्वाभिधानात्पुरुषार्थत्वं चावगम्यते' इति, —तदयुक्तम्,
पुरुषार्थत्वे ऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथा हि—द्रव्यसंस्कारकर्मत्वपक्षे ऽन्नार्थता
वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात्पुरुषार्थत्वमेव
युक्तम् ।—'महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः' इति । तथा—
'वैश्वदेवे तु निवृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्मा अन्नं यथाशक्ति प्रदद्यान्न
बलिं हरेत् ॥' इति ( ३।१०८ ) मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म
न प्रतिपाकमावर्तनीयम् । तस्मात् 'अथ सायं प्रातः' इत्यादिनोत्पत्तिप्रयोगौ
दर्शितौ, 'तानेतान्यज्ञानहरहः कुर्वीत' ( गृ. सू. अ. ३ खं. १ ) इत्यधिकारविधिरिति
सर्वमानवद्यम् ॥ १०३ ॥
भाषा—देवताओं के लिए (वैश्वदेव) होम करने के उपरान्त अवशिष्ट
अन्न से भूतों के लिये बलि दे । कुत्ता, चाण्डाल और कौओं के लिये (यथाशक्ति)
पृथ्वी पर अन्न फेंकना चाहिए ॥ १०३ ॥
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान्न पचेदन्नमात्मने ॥ १०४ ॥
प्रत्यहमन्नं पितृभ्यो मनुष्येभ्यश्च यथाशक्ति देयम् । अन्नाभावे कन्दमूलफलादि,
तस्याप्यभावे जलं देयम्, 'अपि' शब्दात् । स्वाध्यायं सततं कुर्याद्विस्मरणार्थम् ।
न पचेदन्नमात्मने इति 'अन्न' ग्रहणं सकलादनीयद्रव्यप्रदर्शनार्थम् ।
कथं तर्हि ? देवताद्युद्देशेनैव ॥ १०४ ॥
भाषा—प्रतिदिन पितरों और मनुष्यों को भी अन्न दे (अन्न के अभाव में)
जल दे । सतत स्वाध्याय करे । केवल अपने लिए ही भोजन न बनावे ॥ १०४ ॥
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥ १०५ ॥
परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीनतिथि-
भृत्यांश्च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । ३प्राणाग्निहोत्रविधि-
१. एतेन काम्यत्वमपि प्रतिपादितं भवति । २. चान्वहं कुर्यात् ।
३. प्राणेत्याद्यधिकं ।