याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 102, कुल 782 में से
संदर्भ में पढ़ें४६ याज्ञवल्क्यस्मृतिः
श्ववृत्तिश्वेन निषेधात्, (सेवा १ श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्' इति मनु-
स्मरणात्) । ततो मध्याह्ने शास्त्रोक्तविधिना नद्यादिषु स्नात्वा देवान् स्वगृह्योक्तान्
पितॄंश्च, चकारादृषींश्च, देवादितीर्थेन तर्पयेत् । तदनन्तरं गन्धपुष्पाक्षतैः
हरिहरहिरण्यगर्भप्रभृतीनामन्यतमं यथावासनमृग्यजुःसाममन्त्रैस्तत्प्रकाशकैः
स्वनामभिर्वा चतुर्थ्यन्तैर्नमस्कारयुक्तैराराधयेद्यथोक्तविधिना ॥ १०० ॥
भाषा—योग (अप्राप्त वस्तु की प्राप्ति) एवं क्षेम (उपलब्ध वस्तु की
रक्षा) के लिये राजा या स्वामी के पास जावे । (मध्याह्न को) स्नान करके
देवताओं एवं पितरों का तर्पण करे और उनकी पूजा करे ॥ १०० ॥
वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १०१ ॥
तदनन्तरं वेदार्थवेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यात्मिकीं च
विद्यां जपयज्ञसिद्धयर्थं यथोक्तेन विधिना यथाशक्ति जपेत् ॥ १०१ ॥
भाषा—जपयज्ञ की सिद्धि के लिए वेद, अथर्व मन्त्रों, पुराणों एवं इतिहासों
का यथाशक्ति जप करे ॥ १०१ ॥
बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥ १०२ ॥
बलिकर्म भूतयज्ञः, स्वधा पितृयज्ञः, होमो देवयज्ञः, स्वाध्यायो ब्रह्मयज्ञः,
अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः,
नित्यत्वात् । यत्पुनरेषां फलश्रवणं तदेषां पावनत्वख्यापनार्थं, न काम्यत्वप्रति-
पादनाथ ॥ १०२ ॥
भाषा—बलिवैश्वदेव आदि भूत यज्ञ, स्वधा (तर्पण एवं श्राद्ध) पितृयज्ञ
होम देवयज्ञ, धर्मग्रंथों का अध्ययन ब्रह्मयज्ञ और अतिथियों का सत्कार मनुष्ययज्ञ
होता है ये ही महायज्ञ हैं ॥ १०२ ॥
देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत् ॥ १०३ ॥
स्वगृह्योक्तविधिना वैश्वदेव३ होमं कृत्वा तदवशिष्टेनान्नेन भूतेभ्यो बलिं
हरेत् । 'अन्न' ग्रहणमपक्वव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमावन्नं श्वचाण्डाल-
वायसेभ्यो निक्षिपेत् । च शब्दात्कृमिपापरोगिपतितभ्यः । यथाह मनुः
(३।९२) -'शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां
१. सेवेत्याद्यधिकं । २. यथंपुराणेतिहासादीनि कृत्वा । ३. वैश्वदेवं कृत्वा ।