सामग्री पर जाएँ
सर्वकोश
व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)

व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)

Vyakarana Mahabhashya Paspashahnika of Maharshi Patanjali with Commentary

महर्षि पतञ्जलि (टीकाकार: डॉ. रमण कुमार शर्मा) द्वारा

DevanagariHindipublished96 पृष्ठ

पृष्ठ 65, कुल 96 में से

संदर्भ में पढ़ें
पृष्ठ 65

प्रथममाह्निकम् (पस्पशा) ५१
मूलम्—*अस्त्यप्रयुक्तः—
सन्ति वै शब्दा अप्रयुक्ताः । तद्यथा—ऊष, तेर, चक्र, पेचेति ।
किम्तो यत्सन्त्यप्रयुक्ताः ?
प्रयोगाद्धि भवाञ्छब्दानां साधुत्वमध्यवस्यति । य इदानीमप्रयुक्ता नामी
साधवः स्युः ।
इदं तावद् विप्रतिषिद्धम्—यदुच्यते—'सन्ति वै शब्दा अप्रयुक्ता' इति ।
यदि सन्ति नाप्रयुक्ताः, अथाप्रयुक्ता न सन्ति, सन्ति चाप्रयुक्ताश्चेति विप्रतिषिद्धम् ।
प्रयुञ्जान एव खलु भवानाह—सन्ति शब्दा अप्रयुक्ता इति । कश्चेदानीमन्यो भव-
ज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात् ?
नैतद्विप्रतिषिद्धम् । सन्तीति तावद्ब्रूमः । यदेताञ्छास्त्रविदः शास्त्रेणा-
नुविदधते । अप्रयुक्ता इति ब्रूमः यल्लोकेऽप्रयुक्ता इति । यदप्युच्यते—
कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यादिति । न ब्रूमो-
ऽस्माभिरप्रयुक्ता इति ।
किं तर्हि ?
लोकेऽप्रयुक्ता इति ।
ननु च भवानप्यभ्यन्तरो लोके ।
अभ्यन्तरॊऽहं लोके, न त्वहं लोकः ।
प्रदीपः—अस्त्यप्रयुक्त इति । प्रयोगमूलत्वादस्याः स्मृतेरप्रयुक्तानामप्यन्वाख्या-
नादप्रामाण्यमाशङ्कते । यथा घटादीनां विनाप्यर्थक्रियया सत्त्वं गम्यते नैवं शब्दानां,
ते हि सर्वदा व्यवहाराय प्रयुज्यमानाः सन्तः सत्त्वेनावसीयन्त इत्याह—इदमिति ।
कश्चेदानीमिति । उपहासपरम् । उत्तरं तु शास्त्रदृष्ट्या प्रकृतिप्रत्ययादिसद्भावाद-
नुमितसत्त्वाः, व्यवहारे तु न दृश्यन्त इत्युक्तम् । न त्वहं लोक इति । यथा
लोकोऽर्थावगमाय शब्दान्प्रयुङ्क्ते नैवं मयैतेऽर्थे प्रयुक्ता अपि तु स्वरूपपदार्थका
इत्यर्थः ।
अनुवाद—अप्रयुक्त (शब्दराशि) है—
निश्चय ही अप्रयुक्त शब्द भी हैं, जैसे कि ऊष, तेर, चक्र, पेच इत्यादि ।
इससे क्या यदि (वे) अप्रयुक्त हैं ।
क्योंकि आप प्रयोग से ही शब्दों का साधुत्व निश्चय करते हैं। जो अब
अप्रयुक्त हैं, सम्भवतः वे असाधु हों ।
यह तो (परस्पर) विरुद्ध है—जो कहा गया है—'शब्द हैं और अप्रयुक्त
(भी) हैं । यदि हैं (तो) अप्रयुक्त नहीं हैं, यदि अप्रयुक्त हैं (तो) हैं नहीं, हैं (भी)
और अप्रयुक्त (भी) हैं, यह परस्पर विरुद्ध है । प्रयोग करते हुए ही आप कह रहे
हैं—'शब्द अप्रयुक्त हैं।' और कौन आप जैसा दूसरा पुरुष शब्दों के प्रयोग में
कुशल होगा ।