विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 823, कुल 1001 में से
संदर्भ में पढ़ेंसुवर्णेन्धनमाल्यैश्च नैवेद्येन च भूषिणा ॥ घृतदीप्रप्रदानेन वह्निंसन्तर्पणेन च ॥ ३ ॥ एवं नक्ताशनं कृत्वा व्रतं संवत्सरं तदा ॥ व्रतावसाने
दद्याच्च दीपकं द्विजवेद्मसु ॥ ४ ॥ स तु ब्रह्माणि राजेन्द्र यथावर्णानि चाप्यथ ॥ व्रतमेतन्नरः कृत्वा नृणामधिपतिर्भवेत् ॥ ५ ॥ पतिं लभन्ते नर
देवकन्याः शतसहस्रशः ॥ रमयन्ति महाराज यथैवेन्द्रंविदस्तथा ॥ ६ ॥ कालेन चासाद्य मनुष्यलोकं राजा भवेच्छत्रुगणप्रमाथी ॥ बलेन रूपेण धनेन
युक्तो महामतिः सर्वजगत्प्रधानः ॥ ७ ॥ इति श्रीविष्णुध० तृ० खण्डे मा० सं० पातालानां व्रतवर्णनो नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥ १५८ ॥
मार्कण्डेय उवाच ॥ अधातः संप्रवक्ष्यामि सप्तद्वीपव्रतं शुभम् ॥ चैत्रशुक्लादारभ्य प्रत्यहं दिनसप्तकम् ॥ १ ॥ जम्बूकशकुशक्रोञ्चशाल्म
लिद्वीपसंज्ञितम् ॥ गोमेदं पुष्करं चैव प्रत्यहं पूजयेत्क्रमात ॥ २ ॥ नित्यमेव तथा स्नानं बाहिरेव समाचरेत् ॥ घृतेन होमं कुर्वीत सप्तसस्यं, च
दापयेत् ॥ ३ ॥ एकभक्तं तथा नक्तं सकृदेव समाचरेत् ॥ अधःशायी भवेन्नित्यं तद्देवे दिवसत्रयम् ॥ ४ ॥ पूर्णे संवत्सरे दद्याद्रजतस्य विनिर्मितम् ॥
पलानान्तु शतेनैव संस्थानं द्वीपवत्कृतम् ॥ ५ ॥ व्रतमेतन्नरः कृत्वा पूर्ण संवत्सरं शुचिः ॥ स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥ ६ ॥
मानुष्यमासाद्य समस्तद्वीपानुन्क्ति भूमिं विजितारिपक्षः ॥ संपूज्यमानस्त्रिदशैः सदैव महर्षिभिश्चाङ्गणजुष्टवैश्व ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे
तृ० ख० मार्कण्डेयवज्रसंवादे जम्बूद्वीपादिसप्तद्वीपव्रतवर्णनो नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥ १५९ ॥ मार्कण्डेय उवाच ॥ अधातः संप्रवक्ष्यामि
समुद्रव्रतमेव ते ॥ चैत्रशुक्लादारभ्य प्रत्यहं दिवसत्रयम् ॥ १ ॥ लवणक्षीरआज्यौघदधिमण्डसुरोदकम् ॥ तथैवेक्षुसुरोदं च स्वादूदं चैव पूजये
त ॥ २ ॥ आचरेत्प्रत्यहं स्नानं नित्यमेव गृहाद्वहिः ॥ घृतेन होमं कुर्वीत सप्तसस्यं च दापयेत ॥ ३ ॥ हविष्यशी भवेन्नक्तं कुर्यात्संवत्सरं
व्रतम् ॥ संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ॥ ४ ॥ व्रतेनानेन चीर्णेन सप्तसागरमेखलाम् ॥ भुनक्ति वसुधां राजा सप्तजन्मान्तराणि
च ॥ ५ ॥ आरोग्यकामः कुर्वीत व्रतमेतत्तथोत्तमम् ॥ धर्मकामो यशःकामः श्रीकामश्च तथापरः ॥ ६ ॥ मार्कण्डेयवज्रसंवादे लवणसमुद्रादि
धर्मविवृद्धिकारि ॥ कर्तव्यमेतत्प्रयतेनर्तुञ्चैयं राज्यकामास्तु विशेषतस्तैः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे लवणसमुद्रादि
सप्तसमुद्रव्रतवर्णनो नाम षष्ट्युत्तरशततमोऽध्यायः ॥ १६० ॥ मार्कण्डेय उवाच ॥ अधातः संप्रवक्ष्यामि तव शैलव्रतं शुभम् ॥ महेन्द्रो मलयः
सह्यः शुक्तिमानृक्षवानपि ॥ १ ॥ विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ चैत्रशुक्लसमारभ्यप्रत्यहं दिनसप्तकमा ॥ २ ॥ तेषां संपूजनं कुर्याद्वहिः
स्नानं समाचरेत् ॥ गन्धमालयनमस्करधूपदीपान्नसंपदा ॥ ३ ॥ यवेर्होमतथा कार्यों दद्याद्विप्रेषु दक्षिणाम् ॥ नक्तं यवान्नमश्रीयात्कुर्यात्संवत्सरं
६५