विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 779, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध०
॥३२०॥
मण्डलावर्तनं मध्य पुटयोर्भ्रमणं स्मृतम् ॥ ४२ ॥
वलनं गमनं तिर्यग्वलनाच्चलितं भवेत् ॥
आभ्यन्तरत आकर्षः प्रवेशात्सम्प्रकीर्तनम् ॥ ४३ ॥
तथा चापाङ्गसञ्चाराद्वर्धितं समुदाहृतम् ॥
पातनं त्रस्तभावश्च निष्क्रमाद्भाषिकञ्च तथा ॥ ४४ ॥
ऊर्द्धतानपरागाप्तिः प्राकृतं तु स्वभावतः ॥
हास्ये तु वलनं कार्यं मदे भ्रमणमेव च ॥ ४५ ॥
वीरे रसे स्याच्चलनं बीभत्से संप्रवेशनम् ॥
विवर्तितं तु शृङ्गारे पातनं करुणे रसे ॥ ४६ ॥
भयानके निष्क्रमणं वीरे चोद्धर्तनं तथा ॥
प्राकृतं शेषभावे तु यथाद्योगं प्रयोजयेत् ॥ ४७ ॥
ससंभ्रमं साचीकृतं नतं स्यादुद्वृत्तमतः परम् ॥
आलोकितं चोल्लोकितमवलोकितमेव च ॥ ४८ ॥
साम्प्रतारं च सौम्यं च दृष्टिकर्म समं भवेत् ॥
पक्ष्मान्तसंनतारं च साचीकृतमिहोच्यते ॥ ४९ ॥
रूपनिर्वर्तनंयुक्तमनुस्रुतमिति स्मृतम् ॥
सहसा दर्शनं यत्स्यात्तदालोकितमिष्यते ॥ ५० ॥
ऊर्द्धञ्चावलोकितं ज्ञेयं सर्वतो लोकितं तथा ॥
विलोकितं तु पार्श्वभ्यां पृष्ठतश्चावलोकितम् ॥ ५१ ॥
दृष्टीनामनुगं चैव भ्रुवोः कर्म प्रयोजयेत् ॥
गत्या नेत्रे प्रसर्पद्भिर्नानाभावरसाश्रयम् ॥ ५२ ॥
नेत्रस्यालोकनेनैव भ्रुवोस्तु चलनं भवेत् ॥
उत्क्षेपः पातनं चैव भ्रुकुटीचतुरं तथा ॥ ५३ ॥
निकुञ्चितं कुञ्चितं च तथा स्वाभाविकं भवेत् ॥
भ्रुवोरुद्गमनमुत्क्षेपः पातनं पतनं भवेत् ॥ ५४ ॥
द्वयोर्मूलोर्ध्वविगमाद्भ्रुकुटी परिकीर्तिता ॥
चतुरः किञ्चिदुच्छ्वासात्कथ्यतेऽथ भ्रुवा ॥ ५५ ॥
एकस्या उभयोर्वापि स्यादुन्नभ्रं निकुञ्चितम् ॥
एकस्या ललिताभोगाद्गात्रैचितं नाम कीर्तितम् ॥ ५६ ॥
यथास्थिते स्वभावस्थे भ्रुवाः कर्म निबोध मे ॥
समुत्क्षेपस्तु लीलायाः कारुण्यात्पातनं भवेत् ॥ ५७ ॥
क्रोधे च भ्रुकुटी ज्ञेया शृङ्गारचतुरं तथा ॥
क्षामं दूरां तु विज्ञेयं फुल्ले विकसितं भवेत् ॥ ५८ ॥
सम्पूर्णं पूर्णमित्युक्तं कम्पितं परिनर्तितम् ॥
बुद्धिमितैश्चुल्लितकं सरोमाञ्चं तथाविधम् ॥ ५९ ॥
प्राकृते तु स्वभावस्थं मन्दं प्रीति मनीषिभिः ॥
क्षामं दुःखे तु कर्तव्यं फुल्ले हर्षे प्रयोजयेत् ॥ ६० ॥
पूर्णे तुष्टे तु कर्तव्यं तथा रोषे च कम्पितम् ॥
हास्ये स्यात्कुञ्चितं स्पर्शे सरोमाञ्चं विधीयते ॥ ६१ ॥
प्राकृते तु स्वभावस्थं स्वप्रयोगेन योजयेत् ॥
नता मन्दा विकृष्टा च सोच्छ्वासा कुणितानता ॥ ६२ ॥
स्वाभाविके च कर्तव्या प्रयोगे नासिका बुधैः ॥
नतानता तु विज्ञेया मन्दा नतपुटा भवेत् ॥ ६३ ॥
विचेष्टा कुञ्चिता चोर्ध्वं सोच्छ्वासा वधुरेरिता ॥
संङ्घाननात्कुणिता स्यात्स्वभावस्या स्वनासिका ॥ ६४ ॥
नता तु रुचिते कार्या मन्दा शोके विधीयते ॥
तीव्रगन्धे विकृष्टा तु सोच्छ्वासा तु तथा प्रिये ॥ ६५ ॥
विकूणिता जुगुप्सायां शेषा स्वाभाविकी मता ॥
कूणनं खण्डनं छिन्नं शुकितं समता तथा ॥ ६६ ॥
जिह्वाग्रयोद्घट्टनं च दन्तकर्मणि कारयेत् ॥
कुट्टनं मत्तवच्छेदे खण्डनं तु विवेदनम् ॥ ६७ ॥
छिन्नं निकृन्तमेव स्याच्छुकितं विद्रमं च ॥
व्यथौ तु कुट्टनं कार्यमुत्साहे खण्डनं भवेत् ॥ ६८ ॥
तृ० सं०
अ० २६
॥३२०॥