सामग्री पर जाएँ
सर्वकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 498, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 498

वि० ध० ॥२२४॥
द्वि० सं० अ० ७२ ॥२२५॥

स्तस्य पापस्य शान्तय ॥६६॥
एकजातिर्द्विजातिंस्तु येनाङ्गेनापराध्युयात् ॥ तदेव छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥६६॥
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ॥ अवसेचयतो मेदूमवशब्दयतो गुदम् ॥ ६७ ॥
महासनमभिप्रैसुत्कृष्टस्यावकृष्टजः ॥ ६८ ॥
कृताङ्कः स विनिर्वास्यो ह्यङ्के वास्य विकर्तयेत् ॥ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ॥ पादयोर्दण्डिकायां तु ग्रीवायां वृषणेषु वा ॥ ६९ ॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ॥ ७० ॥
अस्थिभेत्ता च षण्णिष्कान्प्रत्राज्यश्च प्रमापकः ॥ अङ्गभङ्गकरस्त्वंगं तदेवापहरेश्नृपः ॥ ७१ ॥
दण्डपारुष्यकृद्व्यात्यस्थान्वयं तथा ॥ अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ॥ ७२ ॥
पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः ॥ पञ्चाशत्तु भवेद्दण्डस्तथैव मृगपक्षिषु ॥ ७३ ॥
कृमिकीटेषु दण्डः स्याज्जतस्य तु माषकम् ॥ तत्स्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा ॥७४॥
सस्वामिकानो मरेके शेषाणां दण्डमेव तु ॥ वृक्षं तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ॥ ७५ ॥
द्विगुणं दण्डयेच्चैन्य पथि सीम्नि जलाशये ॥ छेदनादफलस्यापि मध्यमः साहसः स्मृतः ॥ ७६ ॥
गुल्मवल्लीलतानां तु सुवर्णस्य च माषकम् ॥ वृथा छेदे तृणस्यापि दण्डः कार्षापणं भवेत् ॥ ७७ ॥
त्रिभागं कृष्णलाद्दण्ड्यः प्राणिनस्ताडने तथा ॥ देशकालानुरूपेण मूल्यं राम ! द्रुमादिषु ॥ ७८ ॥
तत्स्वामिनि तथा दद्याद्दण्ड्युक्तं च पार्थिवे ॥ यत्रातिवर्त्तते युग्मं वैगुण्याद्प्राजकस्य तु ॥ ७९ ॥
तत्र स्वामी भवेद्दण्ड्यो नातश्चेवाप्रजाको भवेत् ॥ प्रागक्षश्च भवेद्दासः प्राजको दण्डमर्हति ॥ ८०॥
नास्ति दण्डं च तस्यापि तथा त्राहीति जल्पतः ॥ ८१ ॥
द्रव्याणि यो हरेद्यस्य जानंतोऽजानतोऽपि वा ॥ स तस्योत्पादयेत्तुष्टिं राज्ञो दद्यात्ततो दमम् ॥ ८२ ॥
यस्तु रज्जुं घटं कूपाह्रोरेन्द्भिन्द्याच्च तां प्रपाम् ॥ स दण्डं प्राप्नुयान्माषं तच्च संप्रतिपादयेत् ॥ ८३ ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बुधः ॥ शेषेऽप्यकादशगुणं दण्डं तस्य प्रकल्पयेत् ॥८४॥
सुवर्णरजतादीनां चोतमानां च वाससाम् ॥ पुरुषाणां कुलीनानां नारीणां च विशेषतः ॥ मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥८५॥
महाशशूनां हरणे वस्त्राणामौषधस्य च ॥ कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ८६ ॥
गोषु ब्राह्मणसंस्थासु स्थूलकार्यावभेदने ॥ अश्वोपहारकश्चैव सद्यः कार्यावधाइिकः ॥ ८७ ॥
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ॥ दध्नः क्षीरस्य तक्रस्य पानीयस्य फलस्य च ॥ ८८ ॥
वेणुवैदलभाण्डानां लवणानां तथैव च ॥ मृन्मयानां च सर्वेषां मृदो भस्मन एव च ॥८९॥
मद्यानां पक्षिणां चैव तैलस्य च घृतस्य च ॥ मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम्॥९०॥
अन्वेषामेवमादीनां मत्स्यानामोदनस्य च ॥ पक्वान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ॥ ९१ ॥
पुष्पेषु हरिते धान्ये गुल्मवल्लीलतासु च ॥