विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 451, कुल 1001 में से
संदर्भ में पढ़ेंतव ब्रवीमि ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सावित्र्युपाख्याने तृतीयवरलाभो नामैकोनचत्वारिंशोऽध्यायः ॥३९॥
सावित्र्युवाच ॥
सर्वधर्मविधानज्ञः सर्वधर्मप्रवर्तकः ॥
त्वमेव जगतां नाथः प्रजासंयमने यमः ॥ १ ॥
कर्मणामानुरूप्येण यस्मान्नयसि प्रजाः ॥
तस्मात्त्वमुच्यसे देव यम इत्येव नामतः ॥ २ ॥
धर्मेणोभाः प्रजाः सर्वा यथा रञ्जयसे प्रभो ॥
तस्मात्ते धर्मराजेति नाम सत्यं निगद्यते ॥ ३ ॥
सुकृतं दुष्कृतं चोभे पुरोधाय यथा जनाः ॥
त्वत्सकाशमथायान्ति तस्मात्त्वं मृत्युरुच्यसे ॥ ४ ॥
सर्वेषामथ भूतानां यस्मादन्तकरो भवान् ॥
तस्मात्त्वमन्तकः प्रोक्तः सर्वदेवमहाद्युते ॥ ५ ॥
विवस्वतस्त्वं तनयः प्रथमः परिकीर्तितः ॥
तस्माद्वैवस्वतो नाम्ना सर्वदेवेषु कथ्यसे ॥ ६ ॥
कालं कलां च कलयन्सर्वेषां त्वं हि तिष्ठसि ॥
तस्मात्कालेति ते नाम प्रोच्यते तत्त्वदर्शिभिः ॥ ७ ॥
आयुष्ये कर्मणि क्षीणे गृह्णासि प्रथमं जनम् ॥
तस्मात्त्वं कथ्यसे लोके सर्वप्राणहरिति वै ॥ ८ ॥
तव प्रसादाद्देवेश धर्मे तिष्ठन्ति जन्तवः ॥
तव प्रसादाद्देवेश सङ्करे नैव जायते ॥ ९ ॥
सतां सदा गतिर्देव त्वमेव परिकीर्तितः ॥
जगतोऽस्य जगन्नाथ मर्यादापरिपालकः ॥ १० ॥
पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम् ॥
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥ ११ ॥
यम उवाच ॥
स्तुतेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान् ॥
तव भर्ता विमुक्तोऽद्य लब्धकामा व्रजाबले ॥ १२ ॥
राज्यं कृत्वा त्वया सार्धं वत्सराशीतिमष्टकम् ॥
नाकपृष्ठमथारुह्य त्रिदशैस्सह रंस्यते ॥ १३ ॥
स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यश्च माम् ॥
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥ १४ ॥
पुष्कर उवाच ॥
एतावदुक्त्वा भगवान्यमस्तु विसृज्य तं राजसुतं महात्मा ॥
अदर्शनं तत्र जगाम राम कालेन सार्धं सह मृत्युना च ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सावित्र्युपाख्याने चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥
पुष्कर उवाच ॥
सावित्री च ततः साध्वी जगाम वरवर्णिनी ॥
यथायथागतेनैव यत्रासौ सत्यवान्स्थितः ॥ १ ॥
सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ॥
कृत्वा विवशा तन्वङ्गी लम्बमाने दिवाकरे ॥ २ ॥
सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैःशनैः ॥
उन्मीलयति ते नेत्रे प्रस्पन्दत च भार्गव ॥ ३ ॥
ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ॥
क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति ॥ ४ ॥
जानामि न वराङ्गेऽहं कश्चासौ पुरुषः शुभे ॥
वनेऽस्मिंश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम् ॥ ५ ॥
उपवासपरिक्लान्ता कर्शिता भवती मया ॥
अस्माद्गृहेऽद्य पितरौ दुःखितौ तथा ॥ ६ ॥
द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ॥
सावित्र्युवाच ॥
आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो ॥ ७ ॥
आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम ॥
यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे ॥ ८ ॥
पुष्कर उवाच ॥
एतावदुक्त्वा भर्तारं