सामग्री पर जाएँ
सर्वकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 319, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 319

मभिप्रेक्ष्य पूजयामास राघवः ॥ ३६ ॥
पाद्यार्घ्याचमनीयैः सर्वै राज्यनिवेदनैः ॥
संपूजितस्तदा तेन तत्र चक्रे कथाः शुभाः ॥ ३७ ॥
ततः कथान्ते कांचित्कथां पप्रच्छ तु राघवः ॥
विष्णुना मालिनिधनं तेनोक्तं तस्य तच्छृणु ॥ ३८ ॥
यदुक्तवान्राघवाय अगस्त्यश्चन्द्रार्कवह्निप्रतिमप्रभावः ॥
रक्षोगणेशस्य वधं सुघोरं मुनिर्महात्मा तदिदं निबोध ॥ ३९ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनोक्तागस्त्यमाहात्म्यवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥

अगस्त्य उवाच ॥
माली सुमाली राजेन्द्र माल्यवांश्च रणोत्कटः ॥
लङ्कादुर्गमथासाद्य चित्रसृष्टुः परस्परम् ॥ १ ॥
माली सुमाली दुर्वृत्तौ पीडयन्तौ च देवताः ॥
वार्यमाणावपि सदा तेन माल्यवता नृप ॥ २ ॥
तयोर्भीतः सुरैर्ब्रह्मा ज्ञापितः संप्रयोजनम् ॥
ब्रह्मणा सहितैर्गत्वा ज्ञापितस्त्रिपुरान्तकः ॥ ३ ॥
ब्रह्मेशसहिता देवा विष्णुं शरणमीयुषुः ॥
जग्मुर्लवणतोयस्थं विज्ञापयितुमच्युतम् ॥ ४ ॥
ददृशुश्च सुरैर्जुष्टं समुद्रं पतिमम्भसाम् ॥
ऊर्मिवर्गैः प्रनृत्यद्भिर्वल्गन्तमिव वायुना ॥ ५ ॥
हसन्तमिव फेनौघैः स्खलन्तं कन्दरासु च ॥
अपारमिव गर्जन्तं नानायादोगणावृतम् ॥ ६ ॥
वीचिहस्तैः प्रचलितैर्गाहमानमिवाऽम्बरम् ॥
फेनकीर्णाश्च शैलाश्च समुच्छ्रिताः ॥ ७ ॥
ऊर्मयश्चास्य दृश्यन्ते चलन्त इव पर्वताः ॥
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः ॥ ८ ॥
मकराश्चापि दृश्यन्ते जले मग्ना इवाद्रयः ॥
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः ॥ ९ ॥
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वनभ्रसंवृताः ॥
क्वचित्सुप्तः क्वचिद्गर्जन्क्वचिद्घूर्णन्क्वचित्प्लवन् ॥ १० ॥
क्षीबोपमं तं ददृशुः समुद्रं त्रिदशाधिपाः ॥
क्वचिज्झाषावलिसितैर्दैत्यैः क्वचिद्दैत्यारिणा तथा ॥ ११ ॥
क्वचिच्च भुजंगैर्भीमैर्नागाभोगैश्च संयुतम् ॥
विष्णोर्विराड्वपुषा विश्वाभितजलाविलम् ॥ १२ ॥
अनासादितबाधं च वर्षाणां शतकोटिभिः ॥
तेन देवादिदेवेन विष्णुना प्रभविष्णुना ॥ १३ ॥
नित्यमन्तरसंस्थेन निर्मलीकृतविग्रहम् ॥
शक्रवज्रभयत्रायमाणशैलशताकुलम् ॥ १४ ॥
विद्रुमाभ्रप्रवालौघसहस्राकारविद्रुमम् ॥
पूर्णचन्द्रकलङ्कस्य क्षालनेनेव चोद्गतैः ॥ १५ ॥
खमाक्रमद्भिः कल्लोलैः पौर्णमासीषु यः सदा ॥
असंख्यातैस्तरङ्गौघैः संक्रान्तशशिमण्डलम् ॥ १६ ॥
हसन्तमिवान्तरिक्षस्य श्रियमेवेन्दुधारिणः ॥
दिग्भागाप्लवनकालेषु युक्तं चन्दनवारिणा ॥
सुप्यते च यथा यत्र सततं दानवारिणा ॥ १७ ॥
तमन्तरिक्षप्रतिमं विशाललोलोर्मिमालाव्याकुलितदिग्विभागम् ॥
समुद्रमासाद्य दिवौकसस्ते ततस्थुरुग्रं तपसोऽप्रधृष्याः ॥ १८ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये समुद्रवर्णनो नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ २१४ ॥

अगस्त्य उवाच ॥
तपसा तोषितो देवैर्देवदेवो जनार्दनः ॥
महोदवासं संत्यज्य सुराणां दर्शनं ददौ ॥ १ ॥
ते च