सामग्री पर जाएँ
सर्वकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 271, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 271

बहुभिः स्त्रीभिश्चांशुरश्मिरेव च ॥ १४ ॥ गार्हस्थ्यं च दृढं तत्र स चाप्नोति महीतले ॥ न च प्रच्यवनं तस्यार्जितान्नापि कर्हिचित् ॥ १५ ॥
तस्य ये बान्धवास्तत्र सर्वे ते दीर्घजीविनः ॥ भवन्ति न भवन्त्यस्य आधयो व्याधयस्तथा ॥ १६ ॥ न तस्य मृतनिक्क्रान्तिर्गृहे भवति कर्हिचित् ॥
यावज्जीवत्यसौ तत्र गृहे श्रीमान्सुतायुतः ॥ १७ ॥ चौरेभ्यो न भयं तस्य न च व्याधिकृतं भयम् ॥ व्यालभूपादिजं वापि न क्व तस्य फलं
भवेत् ॥ १८ ॥ स्वरूपः सर्वसिद्धार्थो दीर्घायुर्धैर्यवर्जितः ॥ आज्ञाविधेयभृत्यश्च ध्रुवं स्यान्मनुजेश्वर ॥ १९ ॥ भुङ्क्ते यः सदा कुर्यात्तस्यैतत्
कथितं फलम् ॥ भक्तभोजी तथा कृत्वा द्विगुणं फलमाप्नुयात् ॥ २० ॥ उपोषितस्तु रिक्तासु पूर्णेषु तु हरेर्गृहे ॥ कृत्वोपलेपनं नित्यं चानन्त्यं
फलमश्नुते ॥ २१ ॥ उपलेपनकृच्चस्तु कृष्णापायतने भवेत् ॥ पापसंमार्जनं तस्य शीघ्रमेव भविष्यति ॥ २२ ॥ निष्पापद्यमेतत्सुरवं नरेन्द्र
आराधनं देववरस्य विष्णोः ॥ प्रोक्तं मया ते धनवर्जितानां धनान्यन्वितानां सफलं विशेषम् ॥ २३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उपलेपनफलप्रशंसनो नामैकोनसप्तत्यधिकशततमोऽध्यायः ॥ १६९ ॥

मार्कण्डेय उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ फलमासाद्य गृहीतं देववेश्मोपलेपने ॥ १ ॥
बभूव शूद्रजातीयः कश्चिदङ्गाद्यविवर्जितः ॥ कृतवान्स तु वाणिज्यं धनलोपेन केनचित् ॥ २ ॥
तस्मिन्विपन्ने स कृषिं चकार नृपसत्तम ॥ तस्यामपि विपन्नायां चक्रे सेवां पुनःपुनः ॥ ३ ॥
ततोऽप्यनासाद्य फलं सिद्धिं तीरमुपाश्रितः ॥ गङ्गायाः सप्तमो भागः सिन्धुर्नेरनरोत्तम ॥ ४ ॥
शीतलामलपानीयः स्वर्गलोकप्रदायकः ॥ यत्र स्नात्वा गतिं यान्ति ब्राह्मणाश्च तपस्विनः ॥ ५ ॥
तस्य तीरे वराहचर्चा पुराणाविधिनिर्मिता ॥ तां समासाद्य शूद्रस्तु नित्यं भैक्ष्यपरायणः ॥ ६ ॥
नित्योपलेपनपरस्तद्देवोदेववेश्मनि ॥ उवास भार्यया सार्धं तत्र नित्यानुरक्तया ॥ ७ ॥
एतस्मिन्नेव काले तु वराहाच्चांदिदृक्षया ॥ सौवीरराजः सम्प्राप्तस्तं देशं चित्रवाहनः ॥ ८ ॥
सिन्धौ स्नानं समासाद्य पूजयित्वा जगत्पतिम् ॥ सभार्यः पृथिवीपालः प्रायाद्राजन्यथागतः ॥ ९ ॥
श्वित्त्य तस्य तु तां दृष्ट्वा स शूद्रो भार्यया सह ॥ भूपाळत्वस्पृहां कृत्वा कालकालवशङ्गतः ॥ १० ॥
वनात्काष्ठान्युपाहृत्य कृत्वा भर्त्तुस्तथाऽग्निचितिम् ॥ अन्वारुरोह तं भार्या शूद्रं पञ्चत्वमागतम् ॥ ११ ॥
स शूद्रो भार्यया सार्धं नाकपृष्ठमितो गतः ॥ सततं धर्मशीलस्तु देववेश्मोपलेपनात् ॥ १२ ॥
एतस्मिन्नेव काले तु युवनाश्वो महीपतिः ॥ विष्णुं सम्पूजयामास पुत्रीयेण व्रतेन तु ॥ १३ ॥
राज्ञस्तस्य व्रतस्यान्ते स्वप्ने प्राह जनार्दनः ॥ भार्गवं च्यवनं गच्छ ततः पुत्रमवाप्स्यसि ॥ १४ ॥
युवनाश्वस्तथोत्थाय स्वप्ने दैवेन चक्रिणा ॥ प्रातः पद्भ्यां ययौ तस्य च्यवनस्याश्रमं शुभम् ॥ १५ ॥ सम्पूज