विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 254, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१०३॥
प्र० खं० अ० १५७
पश्यन्ति स्त्रियस्तं मन्मथार्दिताः ॥ २८ ॥
स मुष्णन्योषितां चित्तं दृशश्च मनुजाधिपः ॥
लाजैरर्चन्दनचूर्णैश्च कीर्यमाणः समन्ततः ॥ २९ ॥
पुष्पैश्च स्त्रीकरोत्सृष्टैः पूर्यमाणो नराधिपः ॥
अभिगम्य च तत्रासौ देवतायतनांस्ततः ॥ ३० ॥
प्रविवेश गृहं श्रीमच्छारदाभ्रचयोपमम् ॥
तत्राभिगमनं कृत्वा देवतानां यथाविधि ॥ ३१ ॥
संपूज्य ब्राह्मणान्भक्त्या विविधैर्धनसञ्चयैः ॥
सभास्थं सान्त्वयामास पौरजानपदं जनम् ॥ ३२ ॥
आश्वास्य प्रेषयामास गृहान्योधजनं तथा ॥
जनानुरागसंयुक्तस्ततः प्रभृति पार्थिवः ॥ ३३ ॥
राजशास्त्रोपदेशेन पालयामास मेदिनीम् ॥
रेमे च सह रामाभिर्गन्धर्वप्रतिमौ युवा ॥ ३४ ॥
स तु कालेन महता राजा पञ्चत्वमागतः ॥
उवास सुचिरं काले पूज्यमानः सुरोत्तमैः ॥ ३५ ॥
मन्वन्तरे व्यतीते तु चाक्षुषस्य महात्मनः ॥
वैवस्वतेऽथ सम्प्राप्ते बुधपुत्रत्वमागतः ॥ ३६ ॥
तत्र तस्य तु यद्रूपं सौभाग्यादेव विश्रुतम् ॥
सशरीरस्य च तथा स्वर्लोके गमनं नृप ॥ ३७ ॥
स्वर्गेतोऽपि स राजर्षिः क्षीणे वैवस्वतेऽन्तरे ॥
प्रविश्यातिपुरं विष्णोश्चन्द्रमण्डलमध्यगम् ॥ ३८ ॥
एतत्सर्वमवाप्तं कर्मणा येन पार्थिवः ॥
अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥ ३९ ॥
^१पूजयन्ति हरिं देवं सात्त्विकास्तु निराशिषः ॥
राजसाः कामकामाश्च क्रूरकामाश्च तामसाः ॥ ४० ॥
हरिं सम्पूज्य मनसा राजसेन पुरूरवाः ॥
सततैदंप्रसङ्गेनायं पृथिव्यामेकराड् बभौ ॥ ४१ ॥
स्वर्गं सुदुर्लभं प्राप्य स्थानं प्राप्स्यति शाश्वतम् ॥
नास्ति विष्णुसमो नाथो नास्ति विष्णुसमा गतिः ॥ ४२ ॥
नास्ति विष्णुसमं त्राणं नरस्यार्तस्य भेषजम् ॥
सत्कृतं पूजनं येन कृतं देवस्य चक्रिणः ॥ ४३ ॥
आरात्रिकं कृतं तेन सम्प्राप्तं परमं पदम् ॥
येन संकीर्तितं राजन्रहिरित्यक्षरद्वयम् ॥ ४४ ॥
बद्धः परिकरेनानेन मोक्षाय गमनं प्रति ॥
एतत्त्वे बुधपुत्रस्य त्रिषु जन्मसु पार्थिव ॥
चरितं सकलं प्रोक्तं येन सम्पूजितो हरिः ॥ ४५ ॥
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं वृद्धिविवर्धनं च ॥
श्रोतव्यमेतन्नियतेन च सद्भिश्छायानसूनोर्जुनसंस्मृद्धिकामैः ॥ ४६ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरूरवसस्वरूपगमनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥
॥ वज्र उवाच ॥
द्वादशीषु कथं विष्णुः सोपवासेन पूजितः ॥
स्याद्गङ्गे मे तन्मे त्वं ब्रूहि तत्त्वतः ॥ १ ॥
पश्य गङ्गमस्य माहात्म्यं यत्र धर्मसमावृभौ ॥
श्रुणु तस्य च धर्मस्य फलभागार्थिको नृपः ॥ २ ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ॥
गङ्गा मंगक्षिताः सर्वे भक्त्या धर्मं निषेवितुम् ॥ ३ ॥
मानुषेण शरीरेण राजा देववपुर्धरः ॥
क्षत्रियोऽपि सदा पूज्यो ब्राह्मणानां महात्मनाम् ॥ ४ ॥
विना गज्यं हि या लक्ष्मीः
॥१०३॥
^१ "राजा" इति क० ।
^२ 'सतां' इति ख० ।