सामग्री पर जाएँ
सर्वकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 141, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 141

प्रथमखण्डे मा०सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

वज्र उवाच ॥ ॥
सप्तमस्ते महाभाग जातस्य दिवसस्त्वयम् ॥ वर्तते ब्रह्मणो ब्रह्मँस्तत्र मन्वन्तरक्षये ॥ १ ॥
कथं कालस्त्वया नीतः पुरा कल्पक्षये तदा ॥ एतन्मे संशयं छिन्धि त्वं समः परमेष्ठिनः ॥ २ ॥

मार्कण्डेय उवाच ॥
नैर्गेतेन मया नीतः कालो मन्वन्तरक्षये ॥ भूयोभूयो महाभाग देवदेवप्रसादतः ॥ ३ ॥
कल्पक्षयमनुप्राप्य दाहकाल उपस्थिते ॥ जनलोकगतेनाथ कालो नीतस्त्व वै मया ॥ ४ ॥
दाहकाले तदा वृत्ते प्रलयाम्भोभिसंप्लवे ॥ जनलोकादहं भ्रष्टः पतितो धरणीतले ॥ ५ ॥
नूनं तस्यैव देवस्य सा माया भीमविक्रमा ॥ एकार्णवे भूमितले पतितस्यापि मे नृप ॥ ६ ॥
जीवितं न परिभ्रष्टं नूनं तस्य प्रसादतः ॥ तदार्ह नदविद्यानः पतितोऽभसि दारुणे ॥ ७ ॥
उह्यमानोम्बुकल्लोलैस्तिरश्चँश्च धाड्व ॥ अपश्यमानो जगतो सशैलवनकाननाम् ॥ ८ ॥
निर्व्वेदं जीवितै दीर्घे तदा प्राप्तोऽस्मि शत्रुहन् ॥ सोऽहमाताऽऽथ निर्विण्णस्तस्मिंस्तूत्दकसंप्लवे ॥ ९ ॥
पश्यामि जलमध्यस्थं विपुले वटपादपम् ॥ महाशाखं घनच्छायं स्निग्धपल्लवशोभितम् ॥ १० ॥
तमहं बाहुभिर्गत्वा तस्मिन्प्र्यग्थवापादपे ॥ (शाखांसक्तं तु पश्यामि सवितारं तथोज्ज्वलम् ॥ ११॥
दिव्यं पश्यामि पर्य्यङ्कं सर्वरत्नोपशोभितम् ॥) पर्य्यङ्के तत्र पश्यामि बालं कमलोचनम् ॥ १२॥
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥ पद्मपत्रा भवचरणं तदाकारकरं तथा ॥ १३ ॥
अलङ्कृतं चामरणैः शिखण्डैश्चविभूषितम् ॥ एकं साहस्रमध्येस्थं भ्राजमानमिव श्रिया ॥ १४ ॥
स मां दृष्ट्वा तदा बालः स्मितपूर्वमुवाच ह ॥ यदि श्रान्तोऽसि धर्मज्ञ विप्रर्षे वदनेन मे ॥ १५ ॥
प्रविश्य विश्रमस्वाद्य यावद्वा रुचितं तव ॥ एवमुक्तस्य सञ्जाता व्रीडा यडुकुलोद्वह ॥ १६ ॥
ततोऽहमवशास्तस्य प्रविष्टो नृप विग्रहम् ॥ जगतो तत्र पश्यामि सशैलवनकाननाम् ॥ १७ ॥
यथापूर्वं महा भाग नगराकारशालिनीम् ॥ देवदैत्योगराकीर्णां समुद्रवरभूषणााम् ॥ १८ ॥
नृपराष्ट्रसमाकीर्णां वर्णिगभिरुपशोभिताम् ॥ द्विजाध्ययनसंयुष्टां वर्णाश्रमसमाकुलाम् ॥ १९॥
सरित्पर्वतवृक्षाढ्यां यज्ञोत्सवसमाकुलाम् ॥ तां दृष्ट्वा कौतुकं जातं तस्य बालस्य कर्मणा॥२०॥
द्रष्टुमिच्छामि तस्यान्तं भ्रममाणस्ततस्ततः ॥ यदा नासाद्याम्यत्र तस्य बालस्य चेष्टितम् ॥२१॥
पूर्णं युगसहस्रेऽपि तमेवाहं तदा शिशुम् ॥ संप्राप्तः शरणं राजब्र्हं भाव्यर्थं चोदितः ॥ २२ ॥
ततोऽहं वदनात्तस्य निर्गतश्शिरसिन्निभात् ॥ यदा तस्योदरेऽपश्यं त्रैलोक्यं सचराचरम् ॥ २३ ॥ तथा पश्यामि सकलं बहिर्भूमि


१ 'योगेन मया नीतः' इति ख० । २ 'मन्वन्तराश्च वै' इति क० । ३ 'सोऽहं शान्तोऽथ निर्विण्णः' इति ख० । ४ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति । ५ 'नगराद्दालशालिनीम्' इति ख० । ६ 'मम' इति ख० । ७ 'नूनमव्यक्तचोदितः' इति ख० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 141, कुल 1001 में से · SarvaKosh