सामग्री पर जाएँ
सर्वकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 133, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 133

दानवाः ॥ तं राममक्षतं दृष्ट्वा हतशेषाः प्रदुद्रुवुः ॥ २४ ॥
मयताम्रप्रभृतयः पुरं च विविशुस्तदा ॥
पलायमानान्समरे न जघान स भार्गवः ॥ २५ ॥
किंचिच्छेषेषु दैत्येषु विनिवृत्तस्तदा रणात् ॥
हतैर्दैत्यायुतगणै रामोऽभ्यन्तरं ययौ ॥ २६ ॥
रामप्रवेशे नगरं वरुणस्याज्ञया तदा ॥
पताकाध्वजसंबाधं कृतं देवैर्विशेषवत् ॥ २७ ॥
नागैश्च दानवैश्चैव सिक्तं चन्दनवारिणा ॥
धूपपुञ्जैः सुसिक्तं कुसुमोत्करमण्डितम् ॥ २८ ॥
ततश्च सुमहातेजा वरुणस्तु विनिर्गतः ॥
पुत्रैः पौत्रैः परिवृतो रामग्रहणकारणात् ॥ २९ ॥
संपूज्य रामं वरुणो रथमारोप्य च स्वकम् ॥
प्रवेशयामास पुरं बहुतूर्यपुरस्कृतम् ॥ ३० ॥
रामप्रवेशे च तदा नृत्यन्त्योऽप्सरसां गणाः ॥
गन्धर्वानुगता दिव्या गायन्ति संस्तुवन्ति च बन्दिनः ॥ ३१ ॥
स प्रविश्याथ नगरं वरुणस्य तथा गृहम् ॥
उवास तत्र धर्मात्मा वरुणेन सुपूजितः ॥ ३२ ॥
धर्माणामागमं कृत्वा वरुणात्सुसुतात्तदा ॥ ३३ ॥
एवं स रामः परवीरघाती संप्राप्य यादोगणनाथवेश्म ॥
उवास पुत्रैर्वरुणस्य सार्धं संपूजितस्तेन जलेश्वरेण ॥ ३४ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे अयःशङ्कवो नाम सप्ततितमोऽध्यायः ॥ ७० ॥

॥ वज्र उवाच ॥
यत्स शुश्राव धर्मात्मा वरूणाद्भृगुनन्दन ॥
तन्ममाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ १ ॥

॥ मार्कण्डेय उवाच ॥
जमदग्निसुतो रामो वरुणस्य गृहोषितः ॥
कदाचिद्वरुणं देवमिदं वचनमब्रवीत् ॥ २ ॥

॥ राम उवाच ॥
नमस्ते देवदेवेश सुरासुरगणार्चित ॥
गोब्राह्मणहितासक्त यादोगणजलेश्वर ॥ ३ ॥
त्वं तस्य देवदेवस्य विष्णोरमिततेजसः ॥
अयनमृषिभिर्ध्येयं विष्णुर्नारायणः स्मृतः ॥ ४ ॥
त्वमेवेदं जगत्सर्वं स्थावरं जङ्गमञ्च यत् ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्वच्छरीरे समाश्रिताः ॥ ५ ॥
त्वमिन्द्रस्त्वं च धनदस्त्वमीशस्त्वं समीरणः ॥
त्वमग्निस्त्वं यमश्चैव सर्वाधारस्त्वमच्युतः ॥ ६ ॥
देवानामीश्वरश्चैव नागानामधीश्वरस्तथा ॥
सागराणां च सरसां सरितां च महाभुज ॥ ७ ॥
कूपवापीतटाकानां शौचस्य परमस्य च ॥
विष्णोर्वामस्य नेत्रस्य शशाङ्कस्य महात्मनः ॥ ८ ॥
त्वन्मयं मण्डलं देव त्वन्मयास्सर्वतारकाः ॥
त्वमेव सरितां नाथस्समुद्रो यादसां पतिः ॥ ९ ॥
आधारस्सर्वभूतानां विधाता च जगत्पते ॥
त्वन्मयो देहिनां प्राणो जीवो रुधिरसंज्ञकः ॥ १० ॥
सोमस्त्वं प्राणिनां देव सर्वदेवमयो विभुः ॥
भवता संयताः पाशेन दानवा देव दारुणैः ॥ ११ ॥
पातालागारमाश्रित्य भवांस्तिष्ठति निर्भयः ॥
मेरुपृष्ठे च भगवन्पुरी ते देवनिर्मिता ॥ १२ ॥
तृतीया च महाभाग मानसोत्तरमूर्धनि ॥
पुत्रैश्च त्वं वससि प्राकाम्येन जलेश्वर ॥ १३ ॥
सर्वत्र पूज्यसे देवैस्सर्वभूतभवोद्भव ॥
आधारस्त्वं हि तपसां शौचानां


१ 'जगाम' इति ख० ।