विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 216, कुल 392 में से
संदर्भ में पढ़ें२०८ ॥ विष्णुस्मृतौ ९६ ॥
तथा स्थिता त्वं वरहे तथापि
पृच्छाम्यहं ते वसतिं विभूत्याः ॥ ६ ॥
इत्येवमुक्ता वसुधां बभाषे
लक्ष्मीस्तदा देववराग्रतस्था ।
सदा स्थिताहं मधुसूदनस्य
देवस्य पार्श्वे तपनीयवर्णे ॥ ७ ॥
अस्याज्ञया यं मनसा स्मरामि
श्रिया युतं तं प्रवदन्ति सन्तः ।
संस्मारणे चाप्यथ यंच चाहं
स्थिता सदा तच्छृणु लोकधात्रि ॥ ८ ॥
वसाम्यथार्के च निशाकरे च
तारागणाढ्ये गगने विमेघे ।
मेघे तथाऽलम्बपयोधरे च
शक्रायुधाढ्ये च तड़ित्प्रकाशे ॥ ९ ॥
7. उक्ता V⁴ N.; उक्तां C¹'².
विनाभावादभेदाद्वेति यद्यपि तथापि तव विभूतेर्वसतिं निवासस्थानमहं
पृच्छामि ॥ 8. एवं संभावयेत्यस्य भगवतो निदेशेन यमेवाहं मनसा
स्मरामि तमेव सन्तः श्रीमन्तं प्रवदन्ति ।... संस्मारणहेतोर्भगवन्निदेशे च
सति यत्राहं तिष्ठामि तदपि हे लोकधात्रि शृणुष्व ॥ 9. वासस्थाना-
न्याह ।... निर्मेघे गगने । अलम्बं पतनोन्मुखं पयः पानीयं धरतीति तादृशे
शक्रधनुर्भूषिते स्फुरद्विद्युति मेघे चाहं वसामि। चकारात्तथाशब्दश्च प्रत्येकं
वासस्थानताभिधानाय ॥