वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४७२ वीरमित्रोदयस्य राजनीतिप्रकाशे
अरक्षितारं राजानं भार्या चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥
षडिमानि विनश्यन्ति मुहूर्त्तानवेक्षणात् ।
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिताः शिष्याः कृतकृत्या नरेश्वरम् ॥
नारीं विगतकामाश्च कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम् ॥
निस्तीर्णकान्ताराः, निस्तीर्णदुर्गमजलमार्गाः ।
आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन् ॥
स्वप्रत्यया, स्वाधीना । "प्रत्ययोऽधीनशपथज्ञानविश्वासहे-
तुषु"इति कोषः । वृत्तिः जीविका "वृत्तिर्वर्त्तनजीवने"इत्यमरः ।
ईर्ष्या घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि तात॥
षण्णामात्मनि नित्यानामैश्वर्यमधिगच्छति ।
न स पापैः कुतोऽनर्थैर्युज्येत विजितेन्द्रियः ॥
षण्णाम्, इन्द्रियाणाम् । ऐश्वर्यं, वशित्वम्
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥
प्रमदाः काममानेषु यजमानेषु याजकाः ।
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४७३
राजा विवदमानेषु नित्यं मूर्खेषु पण्डितः ॥
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः ।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुद्ध्यते ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥
नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयते ।
एतान्दोषान्नरः प्राज्ञो बुध्येद्बुद्ध्वा विसर्जयेत् ॥
अष्टाविमानि हर्षस्य नवनीतानि भारत ।
वर्त्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥
समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥
समये हर्षादिसमये ।
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेदः स परः कविः ॥
नवद्वारमिति । चक्षुःश्रोत्रनासामुखपायूपस्थरूपनवद्वारम् ।
त्रिस्थूणं, त्रीणि सत्त्वरजस्तमांसि वातपित्तकफा वा स्थूणा
आधारस्तम्भा यस्य तत् । पञ्चसाक्षिकं, पञ्च ज्ञानेन्द्रियाणि
६०
४७४ वीरमित्रोदयस्य राजनीतिप्रकाशे
साक्षिणो गृह्यमाणविषयनिवेदयितारो यत्र तत्तादृशम् । क्षे-
त्रज्ञाधिष्ठितं, क्षेत्रं शरीरं जानाति आत्मत्वेन बुध्यते स क्षेत्रज्ञो
जीवः तदधिष्ठितम् । परः कविः, उत्कृष्टः पण्डितः ।
दशधर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ।
तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥
मत्तः, मद्यपानादिनाऽनवहितः । प्रमत्तः, असावधानः ।
उन्मत्तः, वातरोगादिमान् । श्रान्तः, अध्वगमनभारवहनादिना
परिश्रान्तः ।
तथा,
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनानि ।
विशेषविच्छ्रुतवान् क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥
जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥
मात्रां, दण्डपरिमाणम् । कस्मिन्नपराधे कियान् दण्डः क-
र्त्तव्य इत्यादिकम् ।
सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् ।
न विग्रहं रोचयते बलिष्ठैः काले च यो विक्रमते स धीरः॥
युक्तः, युक्तिमान् । युक्तिश्च स्वसंरक्षणपूर्वकपरनिग्रहानुकू-
लो यत्नः ।
प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् ।
दम्भं स्तेन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥
प्रकीर्णके महाभारतीयदिदुरोक्तनीतयः । ४७५
न संरम्भेणारभते त्रिवर्गमाकारितः शंसति तत्त्वमेव ।
न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥
न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति ।
नात्याहिते किञ्चित्क्षमते विवादं सर्वत्र तादृक् लभते प्रशंसाम्॥
दुर्बलः, असमर्थः । प्रातिभाव्यं, प्रतिभूत्वम् । "अत्याहितं
महाभीतिः कर्म जीवनपेक्षि च" इत्यमरः ।
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।
न मूच्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनो हि ॥
मूर्च्छितः, वृद्धिं प्राप्तः, अथ वा दुःखितः ।
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति ।
न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥
दर्पं, गर्वम् । अस्तम्, अकिञ्चनत्वम् । दुर्गतः, दरिद्रः ।
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः ।
दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥
देशाचारान्समयान् जातिधर्मान् बुभूषते यः स परावरज्ञः ।
स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥
समयान्, राज्ञा ज्ञातिश्रेष्ठैश्च कृतान् कर्त्तव्याकर्त्तव्यनियमान्।
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् ।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान् वर्जयेत्स प्रधानः ॥
पूगवैरम्, पूगैः समुदायापन्नैः सह वैरम् ।
दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधांल्लोकवादान् ।
एतानि यः कुरुते नित्यकानि तस्योत्थानं देवता धारयन्ति ॥
दमं, बाह्येन्द्रियनिग्रहम् ।
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च ।
१ पृष्टः ।
४७६ वीरमित्रोदयस्य राजनीतिप्रकाशे
गुणैर्विशिष्टांश्च पुरोदधाति विपश्चितस्तस्य नयाः सुनीताः॥
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा।
ददात्यमित्रेष्वपि याचितः स्वं तमात्मवन्तं प्रजहत्यनर्थाः ॥
चिकीर्षितं विप्रकृतं १ च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् ।
मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः ।
अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥
य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत।
अनन्ततेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते ॥
तथा,
मिथ्योपेतानि कर्माणि सिद्धयेयुर्यानि भारत ।
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥
मिथ्योपेतानि छद्मयुक्तानि । अनुपायप्रयुक्तानि, उपायैर्वि-
ना प्रयुक्तानि ।
तथैव योगविहितं न सिद्ध्येत्कर्म चेन्नृप ।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥
अनुबन्धानपेक्षेत सानुबन्धेषु कर्मसु ।
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥
अनुबन्धं च सम्प्रेक्ष्य विपाकं चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वी वा न वा ॥
अनुबन्धं, कारणम् । विपाकं, कार्यफलमित्यर्थः । उत्थानं,
स्वोदयम् । कुर्वीत, परिणामशुद्धौ कुर्यात्, तदभावे न कु-
र्यादित्यर्थः ।
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
१ यत्नकृतम् ।
प्रकीर्णके महाभारतीयविदुरोक्तनीतयः ।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥
स्थाने, यथास्थितत्वे । दण्डोऽत्र सैन्यम् । कोशदेशसै-
यथावस्थितिवृद्धिक्षयेषु यः प्रमाणं परिमाणमियत्तां न ज-
स राज्ये नावतिष्ठते राज्यभ्रष्टो भवतीत्यर्थः ।
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥
असांप्रतं, नीतिविरुद्धम् ।
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् ।
लोभाभिपाती ग्रसते नानुबन्धमपेक्षते ॥
“बडिशं मत्स्यवेधनम्” इत्यमरः । अनुबन्धम्, अनु प-
श्चाद् बन्धं बन्धनम् ।
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥
आद्यम्, अदनीयं भोक्तव्यमित्यर्थः ।
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥
अङ्गारकारको यथा समूलं वृक्षमुत्पाट्य तत्राग्निं दत्त्वा
४७८ वीरमित्रोदयस्य राजनीतिप्रकाशे
अङ्गारान् करोति तथा न कुर्यादितिभावः ।
किन्नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः ।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥
अनारभ्या भवन्त्यर्था केचिन्नित्यं तथाऽगताः ।
कृतः पुरुषकारो हि भवेत्तेषु निरर्थकः ॥
के चित्कदाचित् अनारभ्याः । के चिदर्था नित्यं सर्वदैव
तथाऽगताः अनारभ्याः । तेषु कृतः पुरुषकारः पुरुषप्रयत्नः
निरर्थको भवेत् ।
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥
ऋजु पश्यति यः सर्वं चक्षुषा प्रपिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥
सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः ।
अपक्वः पक्वसङ्काशो न स शीर्येत कर्हिचित् ॥
सुपुष्पित इति । अफलः, अजनितपरकार्योत्पत्तिः सन्,सुपु-
ष्पितः, सम्यक्तया दर्शिततत्कार्यारम्भप्रत्याशः, स्यात्, भवेत् ।
स्वकार्यानुरोधेन फलितः सम्पादितपरकार्यः सन् दुरारुहः
परेषामधृष्यः स्यात् । अपक्वः अनिष्पादितसम्पूर्णफलः सन्
पक्वसङ्काशो निष्पादितस्वप्रयोजनतया शीर्णो न भवेत् ।
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥
यस्मान्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।
सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा ।
१ कर्मणा इत्यपि पाठः ।
प्रकीर्णके महाभारतीयविदुरोक्तनीतयः । ४७९
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः ।
वसुधा वसुसम्पूर्णा वर्द्धते भूतिवर्द्धिनी ॥
अथ सन्त्यजतो धर्ममधर्ममनुतिष्ठतः ।
प्रतिसञ्चेष्टते भूमिरग्नौ चर्माहितं यथा ॥
प्रतिसञ्चेष्टते, सङ्कुचितफलवती भवति । अग्नावाहितं चर्म
यथा सङ्कुचितं भवति तथा भवतीतिभावः ।
य एव यत्नः क्रियते परराष्ट्रविमर्दने ।
स एव यत्नः कर्त्तव्यः स्वराष्ट्रपरिपालने ॥
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥
न जहातीत्यत्रापि श्रियमित्यनुषज्यते ।
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥
सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः ।
सञ्चिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥
क्षेत्रपतितवल्लरीग्रहणं शिलं तदाहारवान् ऋषिः शिलाहारी ।
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि ॥
यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि ।
यच्च स्वयं नतं दारु न तत्सन्नमयन्त्यपि ॥
एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥
४८० वीरमित्रोदयस्य राजनीतिप्रकाशे
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः ।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥
विद्या, आत्मज्ञानम् ।
मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः ।
मानेन, मापनेन । मानहीनं स्थापितं धान्यं राक्षसा हरन्तीति
लोके प्रवादाऽपि । अनुक्रमः, चलनम् । “अनध्वा वाजिनां ज-
रा” इत्यत्राप्यभिहितम् ।
अभीक्ष्णदर्शनं गाश्च स्त्रियो रक्ष्याः कुचैलतः ॥
कुचैलं, कुत्सितवस्त्रम्। सुवेषा हि स्त्रियो यतः सर्वोऽपि कामयते।
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः ।
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥
विद्यामदो धनमदस्तथैवाभिजनो मदः ।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥
असन्तोऽभ्यर्चिताः सद्भिः कचित्कार्ये कदाचन ।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥
गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता ।
प्रकीर्णके महाभारतीयविदुरोक्तनीतयः । ४८१
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितं नार्थो न धनेन न बन्धुभिः ॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ।
अवृत्तेर्भयमन्त्यानां मध्यानां मरणाद्भयम् ॥
उत्तमानां तु मर्यानामवमानात्परं भयम् ।
अन्त्यानाम्, अधमानाम् । अवृत्तेः, जीवनोपायाभावाद्भयम् ।
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नापतित्वा विबुद्ध्यते ॥
ऐश्वर्यमदः पापिष्ठोऽत्यन्तं पतनहेतुर्येषु ते तथाविधाः ।
इन्द्रियैरिन्द्रियार्थेषु वर्त्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥
योजितः पञ्चवर्गेण सहजेनात्मकर्षिणा ।
आपदस्तस्य वर्द्धन्ते शुक्लपक्ष इवोडुराट् ॥
अविजित्य य आत्मानममात्यान् विजिगीषते ।
अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ॥
आत्मानमेव प्रथमं द्वेषरूपेण यो जयेत् ।
ततोऽमात्यानममित्रांश्च न मोघं विजिगीषते ॥
यः पुरुषः प्रथममात्मानमेव मन एव द्वेषरूपेण द्विष्त्वे-
न जयेत् । ततोऽमात्यान्स्वप्रधानपुरुषान् अमित्रांश्च मोघं नि-
६१
४८२ वीरमित्रोदयस्य राजनीतिप्रकाशे
र्थकं न विजिगीषते । मनसो जयाभावे तु मोघं विजिगीषत
इति भावः ।
वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं वीरमत्यन्तं श्रीर्निषेवते ॥
रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः ।
तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥
एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्तं हयाः पथि कुसारथिम् ॥
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥
धर्मार्थों यः परित्यज्य स्यादिन्द्रियवशानुगः ।
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।
इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥
आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
बन्धुरात्मात्मनस्तस्य येनैवात्माऽऽत्मना जितः ।
स एव नियतो बन्धुः स एव नियतो रिपुः ॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।
कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥
अपिहितौ, आच्छादितौ ।
समवेक्ष्येह धर्मार्थों सम्भारान् योऽधिगच्छति ।
स वै सम्भृतसम्भारः सततं सुखमेधते ॥
यः पश्चाभ्यन्तरान् शत्रूनविजित्य मनोमयान् ।
जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम् ॥
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४८३
आभ्यन्तरान् पञ्च शत्रून, पञ्च ज्ञानेन्द्रियाणि ।
मनोमयान्, मनःप्रधानान् । अविजित्य, स्वस्वविषयाम-
वणान् अकृत्वा । अन्यान् रिपून, बाह्यान् शत्रून् ।
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः ।
इन्द्रियाणामनीशत्वाद् राजानो राज्यविभ्रमैः ॥
असन्त्यागात्पापकृतामपापांस्तुल्यो दोषः स्पृशते मिश्रभावात् ।
शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥
निजानुत्पततः शत्रून् पञ्च पञ्चप्रयोजनान् ।
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता ।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।
वाक्चैव गुप्तादानं च नैतान्यन्त्येषु भारत ॥
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् ।
शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥
वाक्संयमो हि नृपतेः सुदुष्करतमो मतः ।
अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥
रोहते सायकैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥
कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः ।
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥
४८४ वीरमित्रोदयस्य राजनीतिप्रकाशे
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत्परेभ्यः॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥
यावत्कीर्त्तिर्मनुष्यस्य पुण्या लोके प्रगीयते ।
तावत्स पुरुषव्याघ्रः स्वर्गलोके महीयते ॥
न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।
तथा तथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥
नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्त्तमानम्।
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥
मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् ।
राजद्विष्टं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥
सामुद्रिकं वणिजं चौरपूर्वं शलाकधूर्त्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकुर्वीत सप्त॥
सामुद्रिकं वणिजं, समुद्रव्यवहारकारिणं पोतवणिजम् ।
चौरपूर्वं, पूर्वं चौर्यवृत्त्या जीवन्तम् । शलाकधूर्त्तं, द्यूतकरम् ।
कुशीलवं, नटं चारणं वा । “चारणास्तु कुशीलवा” इत्यमरः ।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ॥
मीयतेऽनेनेति मानं कालः । तेन स्वस्वकाले कृतान्येतान्य-
भयङ्कराणि । अयथाकृतानि अकालकृतानि भयङ्कराणीत्यर्थः ।
प्रकीर्णके महाभारतियविदुरोक्तनीतयः । ४८५
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः ॥
अमृते जारजः कुण्डस्तदन्नभक्षकः कुण्डाशी । पर्वकारः,
शरकर्त्ता । सूची, सूचयति पैशुन्यमाचरति स तथा ।
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥
“भ्रूणोऽर्भके स्त्रैणगर्भे” इत्यमरः । तं हन्ति स तथा । गुरु-
तल्पं गुरुपत्नी “तल्पं शय्यादृदारेषु” इत्यमरः । साऽस्त्यस्य ग-
म्यत्वेन स गुर्वङ्गनागामीत्यर्थः । काकः, इतस्ततो भोजनकर्त्ता ।
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मपाक्यपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः ॥
स्रुवप्रग्रहणः, ग्रामयाजक आभिचारिको वा । व्रात्यः, जा-
तकर्मादिसंस्काररहितः । कीनं पापं तेनाशनाति स तथा ।
स्वयंहलधरो वा । आत्मपाकी, देवपित्रादीन् विहाय केवल-
मात्मार्थं पाककर्त्ता । आत्मवानपीति पाठे आत्मश्लाघी ।
तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः ।
शूरो भयेष्वर्थकृच्छ्रेषु धीरःकृच्छ्रास्वापत्सु सुहृद्दारयश्च ॥
तृणोल्कया, तार्णेन वह्निना । जातरूपं, सुवर्णम् ।
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः॥
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्द्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥
मङ्गलात्, पुण्यात् ।
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
४८६ वीरमित्रोदयस्य राजनीतिप्रकाशे
एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य ।
राजा यदा संश्रयते मनुष्यं सर्वान् गुणानेव गुणो विभाति ॥
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि।
चत्वार्येषामन्ववेतानि सद्भिश्चत्वारि चैषामनुयान्ति सन्तः ॥
निदर्शनानि, नितरां दृश्यते यैस्तानि । यथा—
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥
एतानि चत्वारि सद्भिः सत्सङ्गत्या अन्ववेतानि प्राप्तानि ।
दमादीनि तु चत्वारि अनु लक्षीकृत्य सन्तः यान्ति तत्प्राप्त्यर्थं
यतन्ते यत एतैर्विना सत्त्वमेव न भवति ।
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टाविधः स्मृतः ॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो नामहात्मसु तिष्ठति ॥
न सा सभा यत्र वसन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्।
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनाभ्युपेतम्॥
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥
रूपं, शरीरसौन्दर्यम् उज्ज्वलवेषता च । विद्या, अत्युत्कटा
वेदशास्त्रादिः सभाचातुर्यादिश्च । कौल्यं, महाकुलप्रसूतत्वम् ।
चित्रभाष्यं, विचित्रं भाषणम् । संसर्गयोनयः, सेवादिसंसर्ग-
स्य कारणानि ।
पापं कुर्वन् पापकीर्त्तिः पापमेवाश्नुते फलम् ।
पुण्यं कुर्वन्पुण्यकीर्त्तिः पुण्यमत्यन्तमश्नुते ॥
तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः ।
प्रकीर्णके महाभारतियविदुरोक्तनीतयः । ४८७
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः ।
नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ।
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥
पुण्यं कुर्वन् पुण्यकीर्त्तिः पुण्यं स्थानं स्म गच्छति ।
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः ।
स कृच्छ्रं महदाप्नोति न चिरात्पापमाचरन् ॥
अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा ।
न कृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः ।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥
दिवसेनैव तत्कुर्यात् येन रात्रौ सुखं वसेत् ।
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।
यावज्जीवेन तत्कुर्याद्येनामुत्र सुखं वसेत् ॥
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥
भार्यामिति यौवनेऽप्यस्या धर्मच्युतिर्न जातेति गतयौव-
नां सतीं प्रशंसन्ति स्तुवन्ति न तु यौवनवतीं, यौवने धर्म-
क्षतेः सम्भावितत्वादितिभावः । गतपारं, तपस्याया गतपारम् ।
तपस्यामध्ये ऐहिकसिद्धीनां विघ्नभूतानां सम्भावित्वात् ।
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
४८८ वीरमित्रोदयस्य राजनीतिप्रकाशे
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥
ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥
सुवर्णपुष्पं पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥
बुद्धिश्रेष्ठानीत्यादि । कर्माणि बुद्धिमात्रेण राजसेवादायीनि
मन्त्रित्वादीनि श्रेष्ठानि । बाहुबलेन तादृशानि धनुर्द्धरत्वादी-
नि मध्यानि । जाङ्घिकत्वादीनि जघन्यानि अधमानि ।
भारवाहित्वादीन्यत्यधमानीत्यर्थः ।
आपद्धर्मे महाभारते,
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।
जवेन सन्धिं कुर्वीत पूर्व्वान् पूर्व्वान् विमोचयन् ॥
यो धर्मविजिगीषुः स्याद्बलवान् पापनिश्चयः ।
आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥
अपास्य राजधानीं वा तरेद्द्रव्येण वाऽऽपदम् ।
तद्भावयुक्तो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥
तद्भावो राजभावः ।
यास्तु कोशबलत्यागाच्छक्यास्तारितुमापदः ।
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥
न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ।
तथा,
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥
तथा,
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥
कारयेत्, कुर्यात् ।
तथा,
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्य चित्प्रियः ॥
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च ।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥
तथा,
ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत ।
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ॥
पूजिताः शुभकर्त्तारः पूजयेत्तान्नराधिपः ।
तथा,
तत्रैव ब्रह्मदत्तोपाख्याने पूजन्या वाक्येषु ।
सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत् ।
क्षिप्रं स वध्यते मूढो न हि वैरं प्रशाम्यति ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति ॥
कामं विश्वासयेदन्यान् परेषां च न विश्वसेत् ।
तथा,
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।
विश्वासाद्वध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम् ॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि ।
६२
४९० वीरमित्रोदयस्य राजनीतिप्रकाशे
सान्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥
तथा,
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं सन्तष्ठते वैरं गूढोऽग्निरिव सागरे ॥
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम् ।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥
तथा,
सदा न विश्वसेद्राजा पापं कृत्वेह कस्य चित् ।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते ॥
दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात् ।
सर्वस्य लोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति ॥
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि ।
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥
माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः ।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः ।
तस्मिन् मिथ्याविनीतो हि तिर्यग्गच्छति मानवः ॥
यस्तु रञ्जयते राजा पौरजानपदान् गुणैः ।
न तस्य भ्रंशते राज्यं स्वयं धर्मानुपालनात् ॥
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः ।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥
प्रजा यस्य विवर्द्धन्ते सरसीव महोत्पलम् ।
स सर्वफलभाग्राजा स्वर्गलोके महीयते ॥
प्रकीर्णके महाभारतीयनीतयः । ४९१
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते ।
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम् ॥
तथा,
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ च वर्जयेत् ॥
सपत्नसंहिते कार्ये कृत्वा सन्धिं न विश्वसेत् ।
अपक्रामेत्ततः शीघ्रं कृतकार्यो विचक्षणः ॥
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् ।
नित्यशश्चोद्विजेत्तस्माद्गृहात्सर्पयुतादिव ॥
यथाबुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।
अश्रुप्रमार्जनं चैव कर्तव्यं भूतिमिच्छता ॥
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ।
प्राप्तकालं तु विज्ञाय भिन्द्याद्घटमिवाश्मनि ॥
तथा,
नात्मच्छिद्रं रिपुर्विद्याद्विद्याच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥
पानमक्षास्तथा नार्यो मृगया गीतवादिते ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥
तथा,
देशकालौ समासाद्य विक्रमेत विचक्षणः ।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।