वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४२६ वीरमित्रोदयस्य राजनीतिप्रकाशे
ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम् ॥
ते तमूचुः सुराः सर्वे निर्जिता दानवैर्वयम् ।
तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम् ॥
गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति ।
एवमुक्ताः सुराः सर्वे क्षीरोदे केशवं ययुः ॥
ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम् ।
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥
तुष्टुवुश्च महाभागं त्रिदशास्तं पुनः पुनः ।
सर्वेषामीश्वरं देवं भुवनस्यैककारकम् ॥
देवा ऊचुः ।
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ।
देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ॥
चामीकराभवसन तार्क्ष्यप्रवरकेतन ।
शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ॥
सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज ।
उन्निद्रचारुकमलविराजितकराम्बुज ॥
सदैव देव भग्नानामस्माकमसुरैर्भवान् ।
गतिस्तेन स्म सम्प्राप्ता दैत्यभग्नास्त्वदन्तिकम् ॥
प्रसीद देवदेवेश जहि तानसुराधमान् ।
येऽस्माकं देवदेवेश पीडयन्ति सदैव तु ॥
श्रीभगवानुवाच ।
ध्वजमेतं प्रदास्यामि भवतामरिनाशनम् ।
दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ॥
पुष्कर उवाच ।
एतदुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम् ।
विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२७
सौवर्णमुत्थितं दिव्यं शक्रध्वजमितिश्रुतम् ॥
तमादाय सुराः सर्वे प्रययुर्दानवालयम् ।
देवानुपगतान् श्रुत्वा दानवा निर्ययुस्ततः ॥
सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्ततः ॥
दृष्ट्वा ते च बलं तेषां शक्रकेतुं विराजितम् ॥
तत्तेजसा महाभाग मूढीभूताः क्षणेन तु ।
मूढीभूतास्ततो दैत्यास्त्रिदिशैर्विनिपातिताः ॥
केचिद्भग्ना दिशो जग्मुः समुद्रं विविशुस्ततः ।
ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ॥
पूजयित्वा नृपतये वसवे प्रददौ तदा ।
गर्गोक्तेन विधानेन तं च पूजितवान् वसुः ॥
तेनास्य तुष्टो भगवानिदं वचनमब्रवीत् ।
इन्द्र उवाच ।
येऽप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् ।
अद्यप्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ॥
तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज ।
दुर्भिक्षं मरणं व्याधिः परचक्रभयं तथा ॥
सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे ।
पुष्कर उवाच ।
ततः प्रभृति राजानो राम शक्रमहोत्सवम् ।
कुर्वन्ति गर्गकथितं सर्वामयविनाशनम् ॥
धन्यं यशस्यं रिपुनाशनं च कीर्तिप्रदं धर्मफलप्रदं च ।
कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ॥
पुष्कर उवाच ।
शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे ।
४२८ वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रागुदक्प्रवणे कुर्याच्छक्रार्थं भवनं शुभम् ॥
वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च ।
ततः शक्रध्वजस्थानं मध्ये सम्प्राप्य यत्नतः ॥
मघवन्तं पटे कुर्यात्तस्य भागे तु दक्षिणे ।
वामभागे पटे कुर्याच्छचीं देवीं तथैव च ॥
प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात् ।
तयोस्तु पूजा कर्त्तव्या सततं वसुधाधिपैः ॥
वनप्रवेशविधिना शक्रयष्टिं ततो नृपः ।
आनयेद्धोरथेनाथ वाऽऽनयेत्पुरुषैरयम् ॥
अर्जुनस्याजकर्णस्य प्रियकस्य धवस्य च ।
सुरदारुतरेश्चैव तथैवोदुम्बरस्य च ॥
चन्दनस्याथ वा राम पद्मकस्याथ वा यदि ।
अलाभे सर्व्ववृक्षाणां यष्टिं कुर्वीत वैणवीम् ॥
सुवर्णनद्धां सर्वज्ञ तां च सम्यक्प्रवेशयेत् ।
प्रोष्ठपादासिते पक्षे अष्टम्यां रिपुसूदन ॥
क्रमप्रमाणा विज्ञेया शक्रयष्टिस्ततो नृप ।
चतुर्भिरङ्गुलैर्हीना साग्रे भवति शर्मदा ॥
अष्टाङ्गुलं तथा मूले छित्त्वा तोयेऽथ तां क्षिपेत्
यायादुद्धृत्य नगरं सम्यगेव प्रवर्त्तते ।
तस्याः प्रवेशे नगरं पताकाध्वजमालि च ॥
सिक्तराजपथं कुर्यात्तथालङ्कृतनागरम् ।
नटनर्त्तकसङ्कीर्णं तथा पूजितदैवतम् ॥
सम्पूजितगृहं राम तथा पूजितवानयम् ।
पौरैरनुगतो राजा सुवेशैः फलपाणिभिः ॥
अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत् ।
विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२९
प्राक्शिरस्कां ततः कुर्याद्वस्त्रैः सञ्छादितां शुभैः ॥
पूजितां पूजयेत्तां तु यावत्स्याद्द्वादशीदिनम् ।
एकादश्यां सोपवासो नृपः कुर्यात्सनागरम् ॥
सांवत्सरेण सहितो मन्त्रिणा च पुरोधसा ।
रात्रौ जागरणं कार्यं नागरेण जनेन तु ॥
स्थाने स्थाने महाभाग देया प्रेक्ष्या तथा मधु ।
पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः ॥
द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः ।
यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ॥
सुयन्त्रितं तु तं कुर्याद्गृहस्तम्भचतुष्टयम् ।
पूजयेत्तन्महाभागं गन्धमाल्यान्नसम्पदा ॥
नित्यं च पटयोः पूजां यष्टिपूजां च कारयेत् ।
बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ॥
नित्यं च जुहुयान्मन्त्रैः पुरोधाः शाक्रवैष्णवैः ।
नित्यं गीतेन नृत्येन तथा शक्रं च पूजयेत् ॥
द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः ।
विशेषेण च धर्मज्ञ सांवत्सरपुरोहितौ ॥
उत्थाने च प्रवेशे च शक्रं स्तूयान्नराधिपः ।
वक्ष्यमाणेन मन्त्रेण कुशलश्च पुरोहितः ॥
पूजयेदुच्छ्रितं केतुं भूषणैर्विविधैरपि ।
छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च ॥
एवं सम्पूजयेद्राम तथा दिनचतुष्टयम् ।
पञ्चमे दिवसे प्राप्ते शक्रकेतुं विसर्जयेत् ॥
पूजयित्वा महाभाग बलेन चतुरङ्गिणा ।
नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत् ॥
४३० वीरमित्रोदयस्य राजनीतिप्रकाशे
वाद्यघोषेण महता सङ्गीतिस्तत्र कीर्त्तिता ।
पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि ॥
उत्सवं च तदा कार्य जलतीरगतैर्महत् ।
एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम् ।
नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथात् ॥ इति।
शक्रध्वजोच्छ्रायकाले राज्ञा शक्रस्याशीर्वादरूपाः केचिन्म-
न्त्रा विष्णुधर्मोत्तरोक्ताः पठनीयाः। ते च—
पुष्कर उवाच ।
शृणु मन्त्रानिमान् सम्यक् सर्वकल्मषनाशनान् ।
प्राप्ते शक्रध्वजोच्छ्राये यान् पठेत्प्रयतो नृपः ॥
वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
देवदेव महाभाग त्वं हि वर्द्धिष्णुतां गतः ॥
त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः ।
अनन्ततेजा विरजा यशोविजयवर्द्धनः ॥
अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित ।
ब्रह्मा स्वयम्भूभगवान् सर्वलोकपितामहः ॥
रुद्रः पिनाकभृदृप्तः शतभृद्देवसंस्तुतः ।
योगस्य नेता कर्त्ता च तथा विष्णुरुरुक्रमः ॥
तेजस्ते वर्द्धयन्त्वेते नित्यमेव महाबलाः ।
अनादिनिधनो देवो ब्रह्मगोपः सनातनः ॥
अग्नेस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः ।
कार्त्तिकेयः शक्तिधरः षड्वक्त्रोऽसिगदाधरः ॥
स ते वरेण्यो वरदस्तेजो वर्द्धयतां विभो ।
देवसेनापतिः स्कन्दः सुरप्रवरपूजितः ॥
आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ।
इन्द्रध्वजोच्छ्रायविधाविन्द्रप्रार्थनामन्त्राः । ४३१
मरुद्गणा लोकपालाश्चन्द्रः सूर्योऽनिलोऽनलः ॥
देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः ।
समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥
तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्त्तिरेव च ।
प्रवर्द्धयन्तु ते तेजो जय शक्र शचीपते ॥ इति ।
इत्याशीर्वादरूपान् मन्त्रान् पठित्वा इन्द्रप्रार्थनां कुर्यात् ।
प्रार्थनारूपाश्च मन्त्रास्तत्रैव पठिताः ।
तव चापि जयान्नित्यमिह सम्पद्यते शुभम् ।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥
तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत् ।
शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशम् ॥
नमस्ते देवदेवेश नमस्ते बलसूदन ।
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥
सर्वेषामेव लोकानां त्वमेकः परमा गतिः ।
त्वमेव परमं त्राणं सर्वस्यासि जगत्पते ॥
पाशो ह्यसि पथः स्रष्टुं त्वमनल्पान् पुरन्दर ।
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥
त्वमेव धनविक्षेप्ता त्वामेवाहुः पुनर्धनम् ।
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥
स्रष्टा त्वमेव लोकानां संहर्त्ता चापराजितः ।
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ।
१ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः ।
लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनिलोऽनलः ॥
इति मुद्रितविष्णुधर्मोत्तरे पाठः ।
४३२ वीरमित्रोदयस्य राजनीतिप्रकाशे
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥
त्वमेव चामृतं देव त्वं मोक्षः परमार्चितः ।
त्वं मुहूर्त्तो निमेषस्त्वं लवस्त्वं वै पुनः क्षणः ॥
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा ।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥
त्वमुत्तमा सगिरिवरा वसुन्धरा सभास्वरं वितिमिरमम्बरं तथा।
महोदधिःसातिमितिमिंगिलस्तथा महोर्मिमानुरुमकरो झषाकुलः॥
महायशास्त्वमिह सदा प्रपूज्यसे महर्षिभिर्मुदितमना महाद्युते ।
महर्षिभिः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥
त्वं विप्रैः सततामिहेज्यसे फलार्थं त्वं देवैरतुलबलौघ गीयसे त्वम्।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्याधिगमयन्ति सर्ववेदैः॥
वज्रस्य भर्त्ता भुवनस्य गोप्ता वैश्वानरं वाहनमभ्युपैति ।
नमः सदाऽस्मै त्रिदशेश्वराय लोकत्रयेशाय पुरन्दराय ॥
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥
त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीश ॥
कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम् ।
हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु ॥
त्रातारमिन्द्रेन्द्रियकारणात्मन् जगत्प्रधानं च हिरण्यगर्भम् ।
लोकेश्वरं देववरं वरेण्यमानन्दरूपं प्रणतोऽस्मि नित्यम् ॥
इमं स्तवं देववरस्य कीर्त्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः।
१ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता ।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥
यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति । इति-
मुद्रितविष्णुधर्मोत्तरे पाठः ।
इन्द्रध्वजभङ्गे फलाफलं शान्तिकं च । ४३३
अवाप्य कामान्मनसोऽभिरामान् स्वर्लोकमायाति च देहभेदे ॥
इति प्रार्थनामन्त्राः ।
इन्द्रध्वजभङ्गे फलाफलं विष्णुधर्मोत्तर एवोक्तम्—
पुष्कर उवाच ।
इन्द्रध्वजशिरो भज्येत्पतेदिन्द्रध्वजो यदि ।
भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः ॥
यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च ।
मातृकायास्तथा भङ्गे परचक्रभयं द्विज ॥
दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा ।
तेषां तीव्रतमं ज्ञेयं फलमत्यन्तदारुणम् ॥
निलीयते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज ।
राजा वा म्रियते तत्र स वा देशो विनश्यति ॥
इन्द्रध्वजोपकरणं यत्किञ्चिद्विजसत्तम ।
विनश्यत्यस्य विज्ञेया पीडा नगरवासिनाम् ॥
इन्द्रध्वजनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् ।
इन्द्रयागं पुनः कुर्यात्सौवर्णेनेन्द्रकेतुना ॥
राज्यं दत्त्वा च गुरवे धनेन प्रतिमोचयेत् ।
सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ॥
शान्तिरैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः ।
महाभोज्यानि कार्याणि ब्राह्मणानां दिने दिने ॥
गावश्च देया द्विजपुङ्गवेभ्यो हिरण्यवासोरजतैः समेताः ।
एवंकृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्मनुजाधिपस्य ॥
इन्तीन्द्रध्वजदुर्निमित्तेषु फलाफलं शान्तिकं च ।
अथ नीराजनशान्तिः ।
विष्णुधर्मोत्तरे ।
५५
४३४ वीरमित्रोदयस्य राजनीतिप्रकाशे
राम उवाच ।
नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम ।
कथं कार्या नरेन्द्रस्य शान्ती नीराजने प्रभो ॥
पुष्कर उवाच ।
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ।
विस्तीर्णं कारयेद्राजा सुमनोहरमाश्रमम् ॥
कटैर्गुप्तं कुशास्तीर्णं पताकाध्वजशोभितम् ।
तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम् ॥
कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम् ।
वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम ।
तोरणाद्दक्षिणे भागे तत्र कार्यमथाश्रमम् ॥
देवता च भवेद्यत्र तथाग्निहवनक्रिया ।
अष्टहस्तायतोत्सेधमुल्मुकानां तु वामतः ॥
कार्यं भवति शुष्काणां कूटं भृगुकुलोद्भव ।
पञ्चरङ्गकसूत्रेण शतग्रन्थि मनोरमाम् ॥
मध्यमे तोरणे कुर्याच्छतपाशीं तु मध्यगाम् ।
छादयित्वा कुशैस्तां तु मृदा संछादयेत्पुनः ॥
तस्याश्च लङ्घनं वर्ज्यं प्रयत्नात्सर्वजन्तुभिः ।
न लङ्घिता सा यावत्स्यात्प्रथमं राजहस्तिना ॥
चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ।
ततः प्रभृति कर्त्तव्या यावत्स्वातौ रविः स्थितः ।
आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम ॥
देवाः, हरिहरादिप्रतिमाः । तानेव दर्शयति-
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ॥
विनायकः कुमारश्च वरुणो धनदो यमः ।
नीराजनशान्तिः । ४३५
विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च ॥
अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु ।
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ॥
सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ।
पूजा कार्या ग्रहर्क्षाणां तथैव च पुरोधसा ॥
ततश्च जुहुयाद्वह्रौ पुरोधास्सुसमाहितः ।
यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकैः ॥
तथा च मन्त्रहीनानां प्रणवेन महाभुज ।
प्रणवेन, प्रणवाद्येन नाममन्त्रेण !
समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च ।
घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च ॥
हुत्वा च कलशान् कुर्यात् सोदकान् गन्धसंयुतान् ।
पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान् ॥
पञ्चरङ्गकसूत्रेण कुर्याद्वस्त्रगतांस्तथा ।
भल्लातशालिसिद्धार्थवचाकुष्ठप्रियङ्गवः ॥
तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः ।
ततः संस्नापनीयाः स्युर्मन्त्रपूतैर्गजोत्तमाः ॥
तुरगाश्च महाभाग अलङ्कृत्य ततस्तु तान् ।
ततोऽभिषेकनागस्य तथा तत्तुरगस्य च ॥
अन्नपिण्डं ततो देयमभिमन्त्र्य पुरोधसा ।
तस्याभिनन्दने राज्ञो विजयः परिकीर्तितः ॥
त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम् ।
निष्क्रामयेत्तोरणैस्तु ततो हि प्रथमं गजान् ॥
तत्रापि प्रथमं राम अभिषिक्तगजोत्तमम् ।
तस्यादौ शतपार्शीं तु नरः पञ्चनखोऽपि वा ॥
४३६ वीरमित्रोदयस्य राजनीतिप्रकाशे
जघन्यो लङ्घयेत्तां तु राज्ञो मरणमादिशेत् ।
जघन्यो नरः, शूद्रचाण्डालादिः । जघन्यः पञ्चनखः,स्वादिः
दुर्भिक्षं तत्र विज्ञेयं खरोष्ट्रैश्चैव लङ्घने ।
लङ्घयेद्वामपादेन यदि तां नृपकुञ्जरः ॥
राज्ञीपुरोहितामात्यराजपुत्राहितं भवेत् ।
राज्ञस्तु मरणं ब्रूयादाक्रमेत्तां यदाऽपरः ॥
राज्ञोऽपि जयमाचष्टे लङ्घयन् दक्षिणेन ताम् ।
राजहस्तिनि निष्क्रान्ते सा त्वपास्या तदा भवेत् ॥
निष्क्रामेयुस्ततः सर्वे प्राङ्मुखास्तोरणैर्गजाः ।
ततोऽश्वाः सुमहाभाग ततस्तु नरसत्तमाः ॥
ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च ।
आश्रमे तानि संस्थाप्य पूजयेदायुधानि च ॥
पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसराः कृताः ।
दूष्यांदूष्येतिमन्त्रेण निबध्नीयात्पुरोहितः ॥
सर्वेषां नृपनागानां तुरगाणां च भार्गव ।
स्वगृहेषु ततो नेयाः कुञ्जरास्तुरगैः सह ॥
स्वातिस्थः सविता यावत्तावच्छायासु संस्थितान् ।
पूजयेत्सततं राम नाक्रोशैनैव ताडयेत् ॥
राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा ।
पूजयेद्वरुणं नित्यं यथोक्तद्विधिना द्विज ॥
भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः ।
आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः ॥
वसेतामाश्रमे नित्यं सांवत्सरपुरोहितौ ।
१ तथाऽप्सु विधिवद्विज इति मुद्रितविष्णुधर्मोत्तरे पाठः ।
नीराजनशान्तिः । ४३७
अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः ॥
दीक्षितैस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च ।
स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते ॥
अलङ्कुर्याद्दिने तस्मिन् वाहनं च विशेषतः ।
पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ॥
हस्तिनं तुरगं छत्रं खड्गं चापं च दुन्दुभिम् ।
ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् ॥
अभिमन्त्र्य ततः सर्वान् कुर्यात्कुञ्जरधूर्गतान् ।
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ॥
अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः ।
ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम् ॥
निष्क्रम्य तोरणैर्नागमभिमन्त्रितमारुहेत् ।
तोरणेन विनिष्क्रम्य कुर्यात्सुरविसर्जनम् ॥
बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः ।
रत्नेरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः ॥
उल्मुकानां च निचयमादीपितमनन्तरम् ।
राजा प्रदक्षिणं कुर्यात् त्रीन्वारान्सुसमाहितः ॥
चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः ।
क्ष्वेडाकिलकिलाशब्दैः सर्ववादित्रनिस्वनैः ॥
वल्गितैश्च पदातीनां हृष्टानां मनुजोत्तम ।
एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः ॥
जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत् ।
शान्तिर्नीराजनाख्येयं कर्त्तव्या वसुधाधिपैः ॥
क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम् ।
धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमा च ।
४३८ वीरमित्रोदयस्य राजनीतिप्रकाशे
कार्या नृपै राष्ट्रविवृद्धिहेतोः सर्वप्रयत्नेन भृगुप्रवीर ॥इति।
इति नीराजनशान्तिः ।
आश्विनशुक्लनवम्यां राज्ञो भद्रकालीपूजाभिहिता ।
विष्णुधर्मोत्तरे,
राम उवाच ।
विधिना पूजयेत्केन भद्रकालीं नराधिपः ।
नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम ॥
पुष्कर उवाच ।
पूर्वोत्तरे तु दिग्भागे शिबिरात्सुमनोहरे ।
भद्रकालीगृहं कुर्याच्चित्रवस्त्रैः स्वलङ्कृतम् ॥
भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज ।
आश्विने शुक्लपक्षस्य नवम्यां प्रयतस्ततः ॥
तत्र खड्गं च वर्म्माद्यं छत्रं केतुं च पूजयेत् ।
राजलिङ्गानि सर्वाणि तथा शस्त्राणि पूजयेत् ॥
पुष्पैर्गन्धैः फलैर्भक्ष्यैर्भोज्यैश्च सुमनोहरैः ।
बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च ॥
रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिपः ।
एवं हि सम्पूज्य जगत्प्रधानं यात्रा तु देया वसुधाधिपेन ।
प्राप्नोति सिद्धिं परमां महीशो जनस्तथान्योऽपि हि वित्तशक्त्या॥
इत्याश्विनशुक्लनवम्यां भद्रकालीपूजा ।
( १ ) शुक्लपक्षे तु अष्टम्याम् इति मुद्रितविष्णुधर्मोत्तरे पाठः ।
( २ ) अत्र-“एवं सम्पूजयेद्देवीं वरदां भक्तवत्सलाम् । का-
त्यायनीं कामगमां वररूपां वरप्रदाम् ॥ पूजिता सर्वकामैश्च सा
युद्धे वसुधाधिपम् । ” इत्याधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते ।
देवीपुराणोक्ताश्विनशुक्लनवम्यां देवीपूजा । ४३९
अथ प्रकारान्तरेणाश्विनशुक्लनवम्यां देवीपूजा ।
देवीपुराणे,
ब्रह्मोवाच ।
हते घोरे महावीरे सुरासुरभयङ्करे ।
देव्या उपासका देवाः प्रभूता राक्षसास्तथा ॥
आगता घातितं दृष्ट्वा महिषं तं सुदुर्जयम् ।
ब्रह्मविष्णुयमेशाना इन्द्रचन्द्रयमानिलाः ॥
आदित्या वसवो रुद्रा ग्रहा नागाश्च गुह्यकाः ।
समेत्य सर्वे देवास्ते देवीं भक्त्या च तुष्टुवुः ॥
वरं च सर्वलोकानां प्रददौ भयनाशिनी ।
बलिं ददुश्च भूतानां महिषाजामिषेण तु ॥
पुरेषु शङ्खभेर्य्यश्च शतशोऽथ सहस्रशः ।
कृता दुन्दुभिनादाश्च पटुशब्दाः समर्दलाः ॥
पताकाध्वजयन्त्रादिघण्टाचामरशोभितम् ।
तद्दिनं कारयाञ्चक्रुर्देवीभक्ताः सुरोत्तमाः ॥
एवं तस्मिन्दिने वत्स भूतप्रेतसमाकुलम् ।
कृताथ सर्वदेवैश्च महापूजाथ शाश्वती ॥
आश्विने मासि मेधान्ते महिषारिनिबर्हिणीम् ।
देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीमुखे ॥
घातयन्ति पशून् भक्त्या ते भवन्ति महाबलाः ।
बलिं च ये प्रयच्छन्ति सर्वभूतविनायकी ॥
तेषां तु तुष्यते देवी यावत्कल्पं तु शाङ्करम् ।
क्रीडन्ति विविधैर्भोगैर्देवलोके सुदुर्लभे ॥
नाधयो व्याधयस्तेषां न च शत्रुभयं भवेत् ।
न च देवग्रहा दैत्या न सुरा न च पन्नगाः ॥
४४० वीरमित्रोदयस्य राजनीतिप्रकाशे
पीडयन्ति सुराध्यक्ष देवीपादसमाश्रितान् ।
यावद्भूवायुराकाशं जलं वह्निः शशी ग्रहाः ॥
तावच्च चण्डिका पूज्या भविष्यति सदा भुवि ।
प्रावृट्काले विशेषेण आश्विने चाष्टमीषु च ॥
महाशब्दो नवम्यां च लोके ख्यातिं गमिष्यति ।
एतत्तदेव राजेन्द्र स्वर्गवासफलप्रदम् ॥
परापरविभागं तु क्रियायोगेन कीर्त्तितम् ॥
इन्द्र उवाच ।
आश्विनस्य सिते पक्षे नवम्यां प्रतिवत्सरम् ।
श्रोतुमिच्छाम्यहं तात उपवासव्रतादिकम् ॥
ब्रह्मोवाच ।
शृणु शक्र प्रवक्ष्यामि यथा त्वं परिपृच्छसि ।
महासिद्धिप्रदं धन्यं सर्वशत्रुनिबर्हणम् ॥
सर्वलोकोपकारार्थं विशेषादपि वृष्टिषु ॥
कर्त्तव्यं ब्राह्मणैश्चैस्तु क्षत्रियैर्लोकपालकैः ।
गोधनार्थं तथा वैश्यैः शूद्रैः पुत्रसुखार्थिभिः ।
सौभाग्यार्थं तथा स्त्रीभिरन्यैश्च धनकाङ्क्षिभिः ॥
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ।
कर्त्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः ॥
कन्यासंस्थे रवौ शक्र शुक्लामार्थय नन्दिकाम् ।
अपाचिताश्यथैकाशी नक्ताशी त्वथ वाग्बदः ॥
प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः ।
जपहोमसमायुक्तः कन्यका भोजयेत्सदा ॥
अष्टम्यां नव गेहानि दारुजाति शुभानि च ।
एकं वा वित्तभावेन कारयेत्सुरसत्तम ॥
देवीपुराणोक्ताश्विनशुक्लनवम्यां देवीपूजा । ४४१
तस्मिन्देवी प्रकर्त्तव्या हैमी वा राजतापि वा ।
मूर्द्धाक्षिलक्षणोपेता खड्गे शूलेऽथ पूजयेत् ॥
सर्वोपहारसम्पन्नवस्त्ररत्नफलादिभिः ।
कारयेद्रथदोलादिबलिपूजां च दैविकम् ॥
पुष्पादिद्रोणबिल्वाढ्यजातीपुन्नागचम्पकैः ।
विचित्रां रचयेत्पूजामष्टम्यां समुपावसेत् ॥
दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः शुभान्वितः ।
तदर्द्धयामिनीशेषे विजयार्थं नृपः पशुम् ॥
पञ्चाब्दं लक्षणोपेतं गन्धधूपसुगन्धितम् ।
विधिवत्कालिकालीति जप्त्वा खड्गेन घातयेत् ॥
तदुत्थं रुधिरं मांसं गृहीत्वा पूजनादिषु ।
नैर्ऋतेभ्यः प्रदातव्यं महाकौशिकिमन्त्रितम् ॥
तस्याग्रतो नृपः स्नायाच्छत्रुं कृत्वाथ पिष्टजम् ।
खड्गेन घातयित्वा तु दद्यात्स्कन्दविशाखयोः ॥
ततो देवीं स्नापयेत्प्राज्ञः क्षीरसपिंर्जलादिभिः ।
कुङ्कुमागुरुकर्पूरचन्दनैश्चार्च्य धूपयेत् ॥
देयानि पुष्परत्नानि वासांसि त्वहतानि च ।
नैवेद्यं सुप्रभूतं तु देयं देव्याः सुभावितैः ॥
देवीभक्ताश्च पूज्यन्ते कन्यकाप्रमदादयः ।
द्विजान् दीनान्यपाखण्डानन्नदानेन तर्पयेत् ॥
नन्दाभक्ता नरा ये तु महाव्रतधराश्च ये ।
पूजयेत्तान् विशेषेण यस्मात्तद्रूपमम्बिका ॥
मातृणां चैव देवीनां पूजा कार्या तदा निशि ।
ध्वजच्छत्रपताकादि उच्छ्रयेदम्बिकागृहे ॥
रथयात्राबलिक्षेमं स्फुटवाद्यरवाकुलम् ।
५६
कारयेत्तुष्यते येन देवी पशुनिपातनैः ॥
अश्वमेधमवाप्नोति भक्तितः सुरसत्तम ।
महानवम्यां पूजेयं सर्वकामप्रदायिका ॥
सर्वेषु वत्स वर्णेषु तव भक्त्या प्रकीर्त्तिता ।
कृत्वाऽऽप्नोति यशो राज्यं पुत्रायुर्धनसम्पदः ॥ इति
इति देवीपुराणे महानवम्यां देवीपूजा ।
अथ चिह्नेषु देवीपूजाविधिः ।
तत्र देवीपुराणे,
ब्रह्मोवाच ।
क्षीराशी कार्त्तिकारम्भे देव्या भक्तिरतो नरः ।
शाकयावक एकाशी प्रातःस्नायी शिवारतः ॥
पूजयेत्तिलहोमं तु दधिक्षीरघृतादिभिः ।
कुर्याद्देव्यास्तु मन्त्रेण शृणु पुण्यफलं हरे ॥
महापातकसंयुक्तो युक्तो वाप्युपपातकैः ।
मुच्यते नात्र सन्देहो यस्मात्सर्वगता शिवा ॥
अन्यो वा भावनायुक्तस्त्वनेन विधिना शिवाम् ।
स्वयं वा अन्यतो वापि पूजयेत्पूजयीत वा ॥
न तस्य भवति व्याधिर्न वा शत्रुकृतं भयम् ।
नोत्पातग्रहदौस्थ्यं वा न च राष्ट्रं विनश्यति ॥
सदा स्वभावसम्पन्ना ऋतवः शुभदा घनाः ।
निष्पत्तिः सर्वसस्यानां तस्करा न भवन्ति च ॥
प्रभूतपयसो गावो ब्राह्मणाश्च क्रियापराः ।
स्त्रियः पतिव्रताः सर्वा रूपनिर्वृतिकारिणः ॥
फलपुष्पवती धात्री सस्यानि रसवन्ति च ।
देवीपुराणोक्ता चिह्नेषु देवीपूजा । ४४३
भवेयुर्नात्र सन्देहाम्बिकाविधिपूजनात् ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥
अनेनैव तु मन्त्रेण जपहोमं तु कारयेत् ।
प्रातस्तु संस्मृता वत्स महिषघ्नी प्रपूजिता ॥
अघं नाशयेत क्षिप्रं यथा सूर्योदये तमः ।
सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा ॥
द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम् ।
कपिसंस्था महामाया सर्वशत्रुविनाशिनी ॥
वृषे यथेप्सितं दद्यात्कलभे श्रियमुत्तमाम् ।
हंसे विद्यार्थकामांस्तु बर्हिणेऽभीष्टपुत्रदा ॥
गरुत्मति महामाया सर्वरोगविनाशिनी ।
महिषस्था महामारीं शमयेद्ध्वजसंस्थिता ॥
करिगा सर्वकार्येषु नृपैः कार्या त्रिशूलिनी ।
पद्मस्था चर्चिका रौप्या धर्मकामार्थमोक्षदा ॥
प्रेतस्था सर्वभयहा नित्यं पशुनिपातनैः ।
पूजिता देवराजेन्द्र नीलोत्पलकरा वरा ॥
भवेत्तु सिद्धिकामस्य चिह्नाग्रे संव्यवस्थिता ।
चिह्नानि, राज्ञो ध्वजपताकादीनि, तेषामग्रे ।
गन्धपुष्पार्चितां कृत्वा वस्त्रहेमसुचर्चिताम् ॥
फलशालियवैः शूकवर्द्धमानैर्विभूषिताम् ।
शोभनामुच्छ्रयेदग्रे पताकां वा मनोरमाम् ।
चामरं कलशं शङ्खं सातपत्रं वितानकम् ॥
भवेत्तु सिद्धिकामस्य नृपस्य फलदायकम् ।
नमो विश्वेश्वरि दुर्गे चामुण्डे चण्डहारिणि ।
४४४ वीरमित्रोदयस्य राजनीतिप्रकाशे
ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम् ॥ इति ।
इति चिह्नेषु देवीपूजाविधिः ।
अथाश्ववृद्धिर्नृपैराश्विनशुक्लप्रतिपदमारभ्य महानवमीया-
वदश्वशान्त्यर्थं लोहाभिसारिकं कर्म कार्यम् । यथोक्तम्—
देवीपुराणे,
आश्वयुक्शुक्लप्रतिपत्स्वात्तियोगे शुभे दिने ।
पूर्वमुच्चैःश्रवा नाम प्रथमं श्रियमाहरत् ॥
तस्मात्साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा ।
पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥
शान्तिः स्वस्त्ययनं कार्यं तदा तेषां दिने दिने ।
धान्यं भल्लातकं कुष्ठं वचासिद्धार्थकांस्तथा ॥
पञ्चवर्णेन सूत्रेण ग्रन्थि तेषां तु बन्धयेत् ।
वायव्यैर्वारुणैः सौरैः शाक्रैर्मन्त्रैः सवैष्णवैः ॥
वैश्वदेवैस्तथा मन्त्रैर्होमः कार्यो दिने दिने ।
तुरगा रक्षणीयास्तु पुरुषैः शस्त्रपाणिभिः ॥
नैव ताड्याः क्वचित्तत्र न च वाह्याः कथञ्चन । इति ।
भविष्योत्तरेऽपि विशेष उक्तः ।
कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या ।
मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥
तस्यां सदा पूजनीया चामुण्डा मुण्डमालिनी ।
तस्यां ये ह्युपयुज्यन्ते प्राणिनो महिषादयः ॥
सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते ।
यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते ॥
न तथा बलिदानेन पुष्पधूपविलेपनैः ।
लोहाभिसारिकाविधिः । ४४५
यथा सन्तुष्यते मेषैर्महिषैर्विन्ध्यवासिनी ॥
वलिदानं च मांसमाषसहितौदनेन क्रियमाणम् ।
एवं च विन्ध्यवासिन्यां नवरात्रोपवासिना ।
एकभक्तेन नक्तेन स्वशक्त्याऽयाचितेन च ॥
पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः ॥
वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः ।
स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु ॥
जलाभिलाषी नृपतिः प्रतिपत्प्रभृति क्रमात् ।
लोहाभिसारिकं कर्म कारयेद्यावदष्टमी ॥ इति ।
लोहाभिसारिकविधानं च—
तत्रैवोक्तम्,
प्रागुदक्प्रवणे देशे पताकाभिरलङ्कृते ।
मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम् ॥
नवसप्तकरं, षोडशहस्तप्रमाणमित्यर्थः ।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ।
मेखलात्रयसंयुक्तं योन्या स्वच्छन्दलाभया ॥
राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ।
आनीय मण्डपे तानि सर्वाण्यण्यधिवासयेत् ॥
ततस्तु ब्राह्मणः स्नातः शुक्लाम्बरधरः शुचिः ।
ॐकारपूर्वकैर्मन्त्रैस्तलिलैर्जुहुयाद्घृतम् ॥
लोहनामाऽभवत्पूर्वं दानवः सुमहाबलः ।
स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ॥
तदङ्गसम्भवं लोहं सर्वं यद्दृश्यते क्षितौ ।
शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुक्तम् ।