वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
१९२ वीरमित्रोदयस्य राजनीतिप्रकाशे
लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तनेऽपि च ॥
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ।
विरक्तलक्षणं ह्येतच्छृणु रक्तस्य लक्षणम् ॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।
कुशलादिपरिप्रेक्षी सम्प्रयच्छति चासनम् ॥
विविक्तदर्शने चास्य रहस्येन न शङ्कते ।
जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दते ।
उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥
कथान्तरेषु स्मरांतं प्रहृष्टवदनस्तथा ।
इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह ॥
आपत्सु न त्यजेत्पूर्वं विरक्तमपि सेवितम् ।
मित्रं न चापत्सु तथा च भृत्यायजन्ति ये निर्गुणमप्रमेयम् ।
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामामरवृन्दजुष्टम् ॥ इति ।
महाभारते धौम्यवचनम्—
दिष्टद्वारो लभेद्व्रष्टुं राजस्वेषु न विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नातिपतेत्परान् ॥
दिष्टद्वारः, निवेदनानन्तरमादिष्टप्रवेशः । सामान्यतो वा
निवारितद्वारप्रवेशः ।
यो न यानं न पर्यङ्कं न पीठं न गजं रथम् ।
अरोहेत्सम्मतोऽस्मीति स राजवसतिं वसेत् ॥
यत्र यत्रैनमासीनं शङ्केरन् दुष्टचारिणः ।
न तत्रोपविशेद्यो वै स राजवसतिं वसेत् ॥
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ।
तूष्णीं त्वेनमुपासीत काले समाभिपूजयन् ॥
राजोऽनुजीविवृत्तम् । १९३
असूयन्ति हि राजानो जनानानृतवादिनः ।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कदाचन ।
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥
यान् राजा द्वेष्टि, ये च राज्ञोऽहिताः, तेषु मैत्रीं न कुर्वीते-
त्यनुषङ्गः ।
विदिते चास्य कुर्वीत कार्याणि सुबहून्यपि ।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥
गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः ।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥
समातिक्रान्तमर्यादं पूजयन्ति नराधिपाः ।
यत्नाच्चोपचरेदेनमग्निवद्देववत्त्विह ॥
अनृतेनोपचीर्णो हि हन्यादेव न संशयः ।
यद्यद्भर्त्तानुयुञ्जीत तत्तदेवानुवर्त्तयेत् ॥
प्रमादमवलेपं च कोपं च परिवर्जयेत् ।
समर्थनासु सर्वासु हितं च प्रियमेव च ॥
संवर्णयेत्तदेवास्य प्रियादपि हितं भवेत् ।
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च ॥
अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ।
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः ॥
अप्रमत्तश्च सततं हितं कुर्यात्प्रियं च यत् ।
नास्यानिष्टानि सेवेत नाहितैः सह संवदेत् ॥
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ।
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः ॥
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ।
२५
१९४ वीरमित्रोदयस्य राजनीतिप्रकाशे
नित्यं हि प्रतिषिद्धं तु पुरस्तादासनं महत् ॥
न च सन्दर्शने किञ्चिदबद्धमपि सञ्जपेत् ।
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥
न मृषाभिहितं राज्ञा मनुष्येषु प्रकाशयेत् ।
असूयन्ति हि राजानो नराननृतवादिनः ॥
तथैव चावमन्यन्ते नरान् पण्डितमानिनः ।
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः ॥
प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान् ।
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः ॥
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ।
यस्य कोपो महाबाधः प्रसादश्च महाफलः ॥
कस्तस्य मनसापीच्छेददनर्थं प्राज्ञसम्मतः ।
न चोष्ठौ न भुजौ जातु न च वाक्यं समाक्षिपेत् ॥
सदा वातं च वाचं च ष्ठीवनं वाऽऽचरेच्छनैः ।
हास्यवस्तुषु चान्येषु वर्त्तमानेषु केषु चित् ॥
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ।
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्ततः ॥
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ।
लाभेन हर्षयेद्यस्तु न व्यथेद्योऽवमानितः ॥
असंमूढश्च यो नित्यं स राजवसतिं वसेत् ।
राजानं राजपुत्रं वा संवर्णयति यः सदा ॥
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठते प्रियः ।
प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः ॥
न निर्वदति राजानं लभते सम्पदं पुनः ।
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः ॥
राज्ञोऽनुजीविवृत्तम् । १९५
उपजीवी भवेद्राज्ञो विषये वापि यो वसेत् ।
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत यः ॥
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ।
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् ॥
विशेषयेच्च राजानं योग्यभूमिषु सर्वदा ।
विशेषयेत्, राजानमधिकं स्वात्मानं च ततो न्यूनं कुर्यात् ।
अम्लानो बलवाञ्छूरश्छायेवानुगतः सदा ॥
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ।
अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ॥
अहं किं करवाणीति स राजवसतिं वसेत् ।
आन्तरे चैव बाह्ये च राज्ञा यथाथ सर्वदा ॥
आदिष्टो नैव कम्पेत स राजवसतिं वसेत् ।
यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् ॥
दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ।
समवेष न कुर्वीत नोच्चैः सन्निहितो वसेत् ॥
न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ।
न कर्मणि नियुक्तः सन् धनं किञ्चिदपि स्पृशेत् ॥
प्राप्नोति हि हरन्द्रव्यं वेधनं यदि वा वधम् ।
पानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति ॥
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् । इति ।
इत्यनुजीविवृत्तम् ।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजि-
तचरणकमल—
श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज-
१९६ वीरमित्रोदयस्य राजनीतिप्रकाशे
श्रीमन्महाराजमधुकरसाहसूनु-
श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरी-
कविकासदिनकर-
श्रीवीरसिंहदेवोद्योजित-
श्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनु-
सकलविद्यापारावारपारीणधुरीण-
जगद्दारिद्यमहागजपारीन्द्रविद्वज्जनजीवातु-
श्रीमन्मित्रमिश्रकृते
श्रीवीरमित्रोदयाभिधाननिबन्धे राजनीतिप्रकाशे राजधर्माः ।
राज्ञो निवासयोग्यदेशः । १९७
अथ राज्ञो निवासयोग्यदेशविचारः ।
तत्र मनुः,
जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् ।
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ इति ।
जाङ्गलदेशलक्षणमन्यत्राभिहितम्—
अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः ।
स ज्ञेयो जाङ्गलो देश इति देशविदो विदुः ॥ इति ।
स्मृत्यन्तरेऽपि,
स्वल्पवृक्षोदकपर्वतो बहुपक्षिमृगः प्रचुरवर्षातपश्च जाङ्गलो-
देश इति ।
इदं च स्वल्पोदकादिविशेषणं देशस्य परैरनाक्रमणीयत्वा-
र्थम् । राजधान्यां तु बहुजलादिमत्त्वं तत्प्रकरणे वक्ष्यते ।
सस्यैः, वार्षिकशारदहैमन्तिकवासन्तिकैरव्यवहितोत्पत्तिकैर्धान्यैः
सम्पूर्णम् । आर्यप्रायं, प्रचुरधार्मिकजनम् । अनाविलं, सर्प-
व्याघ्रादिभिरनाकुलम् । रम्यं मनोरमम् । आनतसामन्तं,
दानमानादिना प्रणततत्तद्भूमिपालम् । स्वाजीव्यं, सुलभकृषि-
वाणिज्यादिलोकजीवनोपायम् । देशमावसेदित्यत्र "उपान्व-
ध्याङ्वस” इत्याधारे द्वितीया । तथा—
याज्ञवल्क्यः,
रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । इति ।
पशव्यं, पशुभ्यो हितम् । आजीव्यं, समन्तादुपजीव्यौषधि-
तृणकाष्ठादियुक्तम् ।
मत्स्यपुराणेऽपि,
१९८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मत्स्य उवाच ।
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ।
रम्यमानतसामन्तं मध्यमं देशमावसेत् ॥ इति ।
प्रभूतं प्रचुरं यवसं तृणम् इन्धनं च यस्मिंस्तादृशम् ।
मध्यमं स्वपालनीयदेशमध्यस्थम् ।
वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ।
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥
अनाहार्यं, परैर्ग्रहीतुमशक्यम् । ब्राह्मणबाहुल्ये सहवासा-
दिना राजकीयभ्यस्तेषां पीडा स्यादित्यतः किञ्चिद्ब्राह्मण-
संयुक्तमिति ।
अदेवमातृकं रम्यमनुरक्तजनावृतम् ।
करैरपीडितं चापि बहुपुष्पफलं तथा ॥
अदेवमातृकं, नदीमातृकम्।नद्यम्बुसम्पन्नव्रीहिपालितमित्यर्थः।
अगम्यं परचक्राणां तद्वासगृहमापदि ।
समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥
सरीसृपविहीनं च व्यालतस्करवर्जितम् ।
एवंविधं यथालाभं राजा विषयमावसेत् ॥ इति ।
विषयो देशः । आपदि, शत्रोर्विपत्काले । तेषां परचक्राणां
वासगृहाणि यत्र तत्तथा । सरीसृपाः सर्पाः । व्याला व्याघ्राः ।
“यथालाभम्” “एवंविधम्” इत्यनेनैतत्प्रकरणोक्तकतिपयदेश-
विशेषणराहित्येऽपि न क्षतिरिति दर्शितम् ।
विष्णुधर्मोत्तरेऽपि,
राजा सहायसम्पन्नः पशव्यं जाङ्गलं शिवम् ।
वैश्यशूद्रजनप्रायमरोगं देशमावसेत् ॥ इति ।
इति राज्ञो निवासयोग्यदेशविचारः ।
दुर्गलक्षणम् । १९९
अथ दुर्गम् ।
तत्र याज्ञवल्क्यः,
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये । इति ।
तत्र, पूर्वोक्तदेशे ।
मत्स्यपुराणे,
तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः ।
तानि च षड्विधानि—
स एवाह,
धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ।
वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव ॥ इति ।
धन्वदुर्गं, निवासस्थानरूपाया राजधान्याः समन्तत एक-
द्विदिनसाध्ये मार्गे मरुभूमिरूपं दुर्गम् । तच्च द्विविधं, स्वतःसिद्ध-
मरुभूमिरूपं, समन्ततो वापीकूपतडागादिजलस्थानानां वृक्षाणां
च विनाशनेन निर्जलतां निर्वृक्षतां च सम्पाद्य कृत्रिममरुभूमिरूपं
च । तत्राद्यमुक्तम्—
औशनसे धनुर्वेदे,
सलिलवर्जितमतिशर्कराचितं रूक्षं निराश्रयं विषमैर्विषकी-
टैश्चितं विषमप्रदेशे दुःसञ्चरं बलवद्भिः पालकैरुपेतं रोगविनि-
र्मुक्तं धान्वनदुर्गं श्रेयसे भवेत् । इति ।
द्वितीयं तूक्तम्—
महाभारते,
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।
तदाभिसंश्रयेत् दुर्गं बुद्धिमान् पृथिवीपतिः ॥
इत्युपक्रम्य—
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः ।
' (ā-kāra) after it!
So it is "महामिष्टकापाषाणादि-"!
Let's check line 15:
निर्मितं दुर्गं महीदुर्गम् । तच्च द्विविधम् । अतिनिम्नोन्नतभू-
Line 16:
मिरूपमेकं, अपरं च पाषाणैरिष्टकाभिर्मृदा वा निर्मितेन युद्धार्थ-
Wait, is there a space after the comma: "मिरूपमेकं, अपरं च" or "मिरूपमेकं,अपरं च"?
In the image: "मिरूपमेकं, अपरं च" (or slight space).
Line 17:
मुपरियोधावस्थानयोग्येन प्राकारेणोपकल्पितम् । तत्राद्यमुक्तम्-
Wait, let's check:
"मुपरियोधावस्थानयोग्येन" ->
म + उपरि = मुपरि
योधावस्थानयोग्येन = योधा + अवस्थान + योग्येन
प्राकारेणोपकल्पितम् = प्राकारेण + उपकल्पितम्
तत्राद्यमुक्तम्-
Line 18:
औशनसे धनुर्वेदे,
Line 19:
सर्वोपकरणोपेतं गुप्तं चोपायसंयुतम् ।
Line 20:
अत्युत्सेधातिनिम्नं
दुर्गलक्षणम् । २०१
नराणामुपलक्षणत्वेन यथासम्भवं चतुरङ्गसेनासन्निवेशविशेषरूपं
दुर्गम् । इदमेव च बलदुर्गम् । तदुक्तम्-
औशनसे धनुर्वेदे,
मौलं वश्यसुसन्तुष्टं शिक्षायुक्तं सनायकम् ।
भीमं चैवाप्रमत्तं च बलदुर्गं प्रशस्यते ॥ इति ।
मौलं परम्परागतयोधरूपम् । प्रशंसितमेतत्-
महाभारते,
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः ।
सर्वे दुर्गेषु शस्यन्ते नरदुर्गं सुदुस्तरम् ॥ इति ।
वार्क्षं, समन्ततो घनतरवृक्षरूपं दुर्गम् । तदुक्तम्-
औशनसे धनुर्वेदे,
अज्ञातमार्गं गहनं वृक्षगुल्मलतादिभिः ।
सकण्टकैर्वनं दुर्गं भूतये स्यात्सुविस्तृतम् ॥ इति ।
अम्बुदुर्गम्, समन्ततोऽगाधजलनद्यादिरूपं दुर्गम् । इदम-
धिकृत्योक्तम्-
औशनसे धनुर्वेदे,
सङ्क्षिप्तेनैकमार्गेण सविषैस्तु जलेचरैः ।
सलिलैर्विषमं स्पर्शनखादनवधप्रियैः ॥ इति ।
स्पर्शनं खादनं वधश्च तत्प्रियैः । गिरिदुर्गं च द्विविधम् ।
समन्ततो दुर्गमपर्वतवेष्टितभूभागरूपं, दुर्गमसजलगिरिशिखर-
रूपं च । तदुक्तम्-
औशनसे धनुर्वेदे,
दुरारोहं परैर्दूरं शरपातस्य गोचरात् ।
सर्वसम्पत्समायुक्तं दुर्गं स्यात्पार्वतं श्रिये ॥ इति ।
२६
२०२ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वेषां धान्यजलादीनां सम्पत् आधिक्यं तेन समायुक्तं
यत्तादृशम् । एतान्येव षड्विधानि दुर्गाण्याह-
मनुरपि,
धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च ।
नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम् ॥ इति ।
तिर्यक्प्रभृतयोऽपि दुर्गमाश्रिता इत्यतो राज्ञा तदवश्यमा-
श्रयणीयामित्यभिप्रेत्य-
स एवाह,
त्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रया झषाः ।
त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥
त्रीण्याद्यानि, आद्यानि त्रीणि दुर्गाणि । तत्र मरुभूमिरूपं
मृगा आश्रिताः, गर्ताश्रया मूषकादयः दुर्गममहीरूपम्, झषा
मत्स्या अगाधजलरूपम्, प्लवङ्गमा वानरा वृक्षसमुदायरूपम्,
नरा मनुष्या नरसमुदायरूपम् । एकाकिनो हि परैरभिभाव्यत्वं
स्पष्टमेव । अमरा देवाः कैलासादिदुर्गमाश्रिता इत्यतो राज्ञाप्ये-
षामन्यतमदुर्गमाश्रयणीयमित्यर्थः ।
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ इति ।
दुर्गस्यावश्यविधेयत्वं तत्प्रकारविशेषं च-
बृहस्पतिराह,
आत्मदारार्थलोकानां सञ्चितानां तु गुप्तये ।
नृपतिः कारयेद्दुर्गं प्राकारद्वारसंयुतम् ॥ इति ।
मनुरपि,
एकः शतं योधयति प्राकारस्थो धनुर्द्धरः ।
शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ इति ।
दुर्गे पुरनिर्माणम् । २०३
तेषां षण्णामपि दुर्गाणां मध्ये गिरिदुर्गस्य प्राशस्त्यमुक्तम्-
मत्स्यपुराणे,
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते । इति ।
मनावपि,
सर्वेषां तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ इति ।
बाहुगुण्येन बहुतरगुणवत्त्वेन । ते च गुणा दुरारोहत्वादयः
प्रत्यक्षसिद्धा एव । तेषु च यथासम्भवं परिखादि कार्य-
मित्युकम्—
मत्स्यपुराणे,
दुर्गं च परिखोपेतं प्राकाराट्टाळसंयुतम् ।
शतघ्नीयन्त्रमुखैश्च शतशश्च समावृतम् ॥ इति ।
इति दुर्गम् ।
अथ पुरनिर्माणम् ।
तत्र मत्स्यपुराणे,
गोपुरं सकपाटं तु तत्र स्यात्सुमनोहरम् ।
तत्र, दुर्गे । गोपुरं, पुरद्वारम् । तत्प्रमाणं तु—
तत्रैव,
सपताकगजारूढो येन राजा विशेत्पुरम् । इति ।
विशेषान्तरमप्युक्तम्-
तत्रैव,
चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः ।
एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥
वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।
२०४ वीरमित्रोदयस्य राजनीतिप्रकाशे
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥
चतुर्थे चैव वीथ्यग्रे गोपुरं तु विधीयते ।
आयतं चतुरस्रं वा वृत्तं वा कारयेत्पुरम् ॥
आयतं दीर्घचतुरस्रम् ।
स्रक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ।
स्रक्तिहीनं कोणरहितम् ।
अर्द्धचन्द्रप्रकारं च वज्राकारं च कारयेत् ॥
अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वशात् १ ।
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ इति ।
तत्र विशेषमाह—
मनुः,
तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन्धनैः ॥ इति ।
पुरमित्युपक्रमे—
बृहस्पतिरपि,
भूपानामिन्धनरसैर्वैत्रशष्पान्नवाहनैः ।
यन्त्रायुधैश्च विविध
दुर्गे पुरगृहादिनिर्माणम् । २०५
मुक्ताः, करादिनिर्मुक्ताः। नृपतिः, विभक्तिव्यत्ययेन नृप-
तिना । स्वशासने, स्वकरादानकरणे । लेखयित्वा, एवं दत्ता
गृहाः करनिर्मुक्ता इति लेखयित्वा । भाव्याः परिपालनीयाः ।
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं सदा ।
पौराणां कर्म कुर्युस्ते सन्दिग्धे विनयं तथा ॥ इति ।
सन्दिग्धे, कार्ये । विनयं, शिक्षाम् । पुरं कुर्यादित्युपक्रम्य-
विष्णुधर्मोत्तरे,
एषामन्यतमे दुर्गे धनधान्यसमायुते ।
हस्त्यश्वरथसम्पन्ने मणिभिरुपशोभिते ॥
यन्त्राढ्ये वेदबहुले युद्धोपकरणैर्युते ।
सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥
हस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे ।
घृततैलौषधियुते सर्वोपकरणैस्तथा ॥
प्राकारपरिखावप्रगोपुराट्टालकैर्युते ।
चाटतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते ॥ इति ।
वेदबहुले, वैदिकब्राह्मणबहुले । सुसञ्चिते, वक्ष्यमाणस-
कलपदार्थसञ्चययुक्ते । चाटाः, बहुभाषिणः । परिखादिकरणे
विशेषमाह-
बृहस्पतिः,
समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा ।
शालादृपरिखाद्याश्च कर्त्तव्याश्च तथाविधाः ॥
तथाविधाः, भूमेर्निम्नोन्नततानुसारेण निम्ना उन्नताश्च
कार्या इत्यर्थः ।
समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः ।
द्विजवैश्यवणिक्शिल्पिकारुका रक्षकास्तथा ॥
२०६ वीरमित्रोदयस्य राजनीतिप्रकाशे
स्थलावस्थाननिष्काशभ्रमश्वभ्रचतुष्पथान् ।
समाजविक्रयस्थानगोव्रजांश्चैव कल्पयेत् ॥
एवमन्येषां गृहादौ निर्मिते राज्ञो निवासयोग्यगृहनिर्माणे
प्रकारमाह-
स एव,
दुर्गमध्ये गृहं कुर्याज्जलवृक्षान्वितं पृथक् ।
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम् ॥
माल्यधूपासनोपेतां वीररत्नसमन्विताम् ।
प्रतिमालेख्यदेवैस्तु युक्तामग्न्यम्बुना तथा ॥ इति ।
विष्णुधर्मोत्तरेऽप्युक्तम्-
दैवज्ञस्थपतिभ्यां तु सम्मन्त्र्य शुभलक्षणम् ।
तत्र वासेद्गृहं राजा सर्वोपकरणैर्युतम् ॥ इति ।
तत्र, दुर्गमध्ये । वासेत्, रचयेत् । राज्ञो मुख्यगृहस्य चतु-
र्दिक्षु कोशादिगृहाण्युक्तानि-
मत्स्यपुराणे,
राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः ।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते ॥
गजानां प्राङ्मुखी शाला कर्त्तव्या वाप्युदङ्मुखी ।
आग्नेये च तथा भागे आयुधागारमिष्यते ॥
महानसं च धर्मज्ञ कर्मशाला तथाऽपरा ।
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥
मन्त्रिवेदविदां चैव चिकित्साकर्त्तुरेव च ।
तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥
गवां स्थानं तथैवात्र तुरगाणां तथैव च ।
उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ॥
दक्षिणाभिमुखा वाथ परिशिष्टास्तु गर्हिताः ।
तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः ॥ इति ।
मन्दुरास्थाश्वानां दृष्टिदोषनिरासाय कुक्कुटादिस्थापनमुक्तम्—
तत्रैव,
कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः ।
श्याममुखताम्रमुखाभ्यां ह्रस्वलाङ्गूलदीर्घलाङ्गुलाभ्यां
वा वानरमर्कटयोर्भेदः ।
धारयेदश्वशालासु सवत्सां धेनुमेव च ॥
अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा ।
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः ॥
अस्तङ्गते न कर्त्तव्यो देवदेवे दिवाकरे ।
ततस्तत्र यथास्थानं राजा विज्ञाय सारथिम् ॥
दद्यादावसथस्थानं सर्वेषामनुपूर्वशः ।
योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥
दद्यादावसथान् दुर्गे मन्त्रकालविदां शुभान् ।
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥
आह्वयेत भृशं राजा दुर्गे हि प्रबला रुजः ।
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥
न बहूनामतो दुर्गे विना कार्यं तथा भवेत् ।
दुर्गे च यन्त्राः कर्त्तव्या नानाप्रहरणान्विताः ॥
सहस्रघातिनो राज्ञा तैस्तु रक्षा विधीयते ।
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥
सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते ।
धनुषां क्षेपणीयानां तोमराणां च पार्थिव ॥
क्षेपणीयानां, क्षेप्तुं योग्यानां पाषाणानाम्, लोहसीसगु-
२०८ वीरमित्रोदयस्य राजनीतिप्रकाशे
लिकानां च ।
शराणामथ खङ्गानां कवचानां तथैव च ।
लगुडानां गुडानां च हुडानां परिघैः सह ॥
अश्मनां च प्रभूतानां मुद्गराणां तथैव च ।
त्रिशूलानां पट्टिशानां कणपानां च पार्थिव ॥
प्रासानां च सशूलानां शक्तीनां च नरोत्तम ।
परस्वधानां चक्राणां वर्मणां चर्मभिः सह ॥
कुद्दालरज्जुवेत्राणां पीठकानां तथैव च ।
हिंसकानां च दात्राणामङ्गाराणां च सञ्चयः ॥
सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र शिष्यते ।
वादित्राणां च सर्वेषामौषधीनां तथैव च ॥
यवसानां प्रभूतानामिन्धनस्य च सञ्चयः ।
गुडस्य सर्वतैलानां गोरसानां तथैव च ॥
वसानामथ मज्जानां स्नायूनामस्थिभिः सह ।
गोचर्मपटहानां च धान्यानां सर्वतस्तथा ॥
सर्वतः, सर्वेषाम् ।
तथैवाभ्रपटानां च यवगोधूमयोरपि ।
शणसर्जरसं भूर्जं जतु लाक्षा च टङ्कणम् ॥
अभ्रम्, अभ्रकसंज्ञको धातुविशेषः ।
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥
कुम्भेष्वाशीविषाः कार्या व्यालसिंहादयस्तथा ।
मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् ॥
स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् ।
कर्त्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥
१ तुषाणां चैव इति मुद्रितमात्स्ये पाठः ।
दुर्गे सङ्गाह्यान्तराणि । २०९
तथा,
मनुरुवाच ।
राजा रक्षारहस्यानि यानि दुर्गे निधापयेत् ।
कारयेद्वा महीभर्त्ता ब्रूहि तत्त्वानि तानि च ॥
मत्स्य उवाचेत्युपक्रम्य सङ्ग्राह्यान्तरमप्युक्तम्-
शिरीषौदुम्बरशमीबीजपूरं घृतप्लुतम् ।
क्षुद्योगः कथितो राजन्मासार्द्धस्य पुरातनैः ॥
शिरीषादिकं घृतप्लुतं भुक्तं सत् मार्द्धस्य पञ्चदशादिनात्म-
कपक्षरूपस्य क्षुद्योगः क्षुत्प्रशमनोपायः ।
नरं शस्त्रहतं प्राप्य तस्यास्थि अरणिर्भवेत् ।
कुल्माषवेणुना तत्र जनयेत्तु विभावसुम् ॥
गृहं त्रिरपसव्यं तु क्रियते यत्र पार्थिव ।
नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥
कार्पासास्थि भुजङ्गस्य तथा निर्मोचनं भवेत् ।
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥
सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका ।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप ॥
दिवा च दुर्गे रक्ष्योग्निर्वाति वाते विशेषतः ।
तथा,
उक्तानि वाप्यनुक्तानि राजा द्रव्याण्यशेषतः ।
सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया ॥
जीवकर्षभकाकोलमामलक्याटरूषकम् ।
१ अत्र 'कशेरुफलमूलानि इक्षुमूलं तथा विषम् । दूर्वा क्षीर-
घृतैर्मण्डः सिद्धोऽयं मासिकः परः' ॥ इति मुद्रितमात्स्येऽधिकं
वर्तते ।
२७
२१० वीरमित्रोदयस्य राजनीतिप्रकाशे
शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥
माषपर्णी च मेदे द्वे सारिवे द्वे बलात्रयम् ।
वीराश्वसन्ती वृष्णीया बृहती कण्टकारिका ॥
शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्भद्ररेणुका ।
मधुपर्णी विदार्यौ द्वे महाक्षुद्रा महातपाः ॥
धन्वना सहदेवाह्वा कटुकैरण्डकं विषः ।
पर्णासनाह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः ॥
शुकातिशुक्राश्मर्य्यच्छत्रातिच्छत्रवीरणाः ।
इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ॥
सिंही च सहदेवी च विश्वेदेवाटरूषकम् ।
मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका ॥
शतावरीमधूके च पिप्पलं तालमद्ये च ।
आत्मगुप्ता कट्फलाख्या दार्थिका राजशीर्षिका ॥
राजसर्षपधान्याकवृष्यनोक्ता तथोत्कटा ।
कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ॥
शीतपाकी कुलिशाक्षी काकजिह्वोरुपुष्पिका ।
एर्वारुत्रपुसौ चोभौ गुञ्जातक्रपुनर्नवे ॥
कशेरुका तु काश्मीरी विल्वशालूककेसरम् ।
शूकधान्यानि सर्वाणि शिम्बीधान्यानि चैव हि ॥
क्षीरं क्षौद्रं तथा चुक्रं तैलं मज्जा वसा घृतम् ।
निचोवारिष्टकाक्षोडा वाताममोरुशाणकम् ॥
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ।
१ वृष्या चेति मात्स्ये पाठः ।
२ पर्णी शताह्वा इति मात्स्ये पाठः ।
३ 'नीपश्चारिष्टकाक्षोडवातामसोमबाणकम्' इति मात्स्ये पाठः
दुर्गे सङ्ग्राह्यान्तराणि । २११
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ॥
दाडिमाम्रातकाम्रं च तिन्तिडीकाम्लवेतसम् ।
भव्यर्ककन्धुलकुचकरमर्दकरूपकम् ॥
बीजपूरककण्डूरे मालती राजबन्धुकम् ।
कोलकद्वयपर्णानि द्वयाराम्लकयोरपि ॥
आरेवतं नागरकं प्राचीनारुकमेव च ।
कपिलामलकं चुक्रा फलं दन्तशठस्य च ॥
जाम्बवं नवनीतं च सौवीरकतुषोदके ।
सुराऽऽसवं च मद्यानि मण्डतक्रदधीनि च ॥
शुक्तानि चैव सर्वाणि ज्ञेयान्यम्लगणानि च ।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।
कुबेरकं समरिचं शिग्रुभल्लातसर्षपाः ॥
कुष्ठाजमोदा किणिही हिङ्गुमूलकधान्यकम् ।
कारदी कुञ्चिका याज्या सुमुखा कालमालिका ॥
फणिज्जकोऽथ लशुनं भूस्तृणं सुरसं तथा ।
कायस्था च वयःस्था च हरितालं मनःशिला ॥
अमृता च रुदन्ती च रोहितं कुङ्कुमं तथा ।
यवासैरण्डकाण्डीरं शल्लकी हञ्जिका तथा ॥
सर्वपित्तानि मूत्राणि प्रायो हरितकानि च ।
फलानि चैव च तथा सूक्ष्मैला हिङ्गुपत्रिका ॥
१ अत्र मात्स्ये–'सैन्धवोद्भिदपाठेयपाक्यसामुद्रलोमकम्। कुप्य-
सौवर्चलबिडं बालकेयं यवाह्वकम् ॥ और्वं क्षारं कालभस्म विज्ञे-
यो लावणो गणः। एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे' ॥
इत्यधिकं वर्तते ।