वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 99, कुल 490 में से
संदर्भ में पढ़ेंऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०१
यन्मध्वाभिषिञ्चति रसमेवास्मिंस्तद्दधाति तेजो वा एतत्पशू-
नां यद् घृतं यद् घृतेनाभिषिञ्चति तेज एवास्मिंस्तद्दधात्यमृतं
वा एतदस्मिँल्लोके यदापो यदद्भिरभिषिञ्चत्यमृतत्वमेवास्मिं-
स्तद्दधाति सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्स-
हस्रं दद्यात्क्षेत्रं चतुष्पाद्दद्यादथाप्याहुरसङ्ख्यातमैवापरिमितं
दद्यादपरिमितो वै क्षत्रियोऽपरिमितस्यावरुद्ध्यै इत्यथास्मै
सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धा-
रया ।। इन्द्राय पातवे सुत इति तां पिबेद्यदत्र शिष्टं रसिनः सुतस्य
यदिन्द्रो अपिबच्छचीभिः । इदं तदस्य मनसा शिवेन सोमं
राजानमिह भक्षयामि । अभि त्वा वृषभा सुते सुतं सृजामि पी-
तये । तृम्प व्यश्नुही मदमिति यो ह वाव सोमपीथः सुरायां
प्रविष्टः सहैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भ-
क्षितो भवति न सुरा तां पीत्वाऽभिमन्त्रयेताऽपाम सोमं शन्नो
भवेति तद्यथैवादः प्रियः पुत्रः पितरं प्रिया वा जाया पतिं सुखं
शिवमुपस्पृशत्याविस्त्रस एवं हैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्त-
स्य क्षत्रियस्य सुरा वा सोमो वाऽन्यद्वाऽन्नाद्यं सुखं शिव-
मुपस्पृशत्याविस्त्रसः । (पं० ८ अ० ४ खं० २० )
इन्द्रियमिति । इन्द्रियपाटवहेतुत्वान्मधुन इन्द्रियत्वम् । मधुनः
पुष्पजन्यत्वेनौषधिजन्यत्वम् । घृतस्य शुक्लभास्वरत्वेन प-
शुतेजस्त्वम् । अपाम् आप्यायनहेतुत्वादमृतत्वम् । हिरण्यस्यैव
सहस्रं विशेषणम् । सहस्रनिष्कंमितं हिरण्यं दद्यात् । चतुष्पात्
गवादि । असङ्ख्यातमपरिमितं सङ्ख्यारहितं, शक्त्यनुसारेणे-
त्यर्थः। अपरिमितो बहुधनः । अवरुद्ध्यै प्राप्त्यै । दक्षिणादानो-
त्तरं पुरोहितकर्तव्यम्—अथेति । सुरा औदुम्बरपात्रस्थान्नाङ्कु-
राणामभिषुतो रसः, तत्पूर्णं कंसं, कांस्यपात्रं चषकरूपम् ।