सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 86, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 86

८४ वीरमित्रोदयस्य राजनीतिप्रकाशे
मस्कृत्य वृषं सवत्सां गां च पृष्ठत आलभ्य स्वोपवेशनार्हमश्वं
सांवत्सरेण सर्वौषधीयुक्तकलशोदकेन “या ओषधीः” इतिकृता-
भिषेकं गन्धमाल्यादिभिरलङ्कृतं दक्षिणे कर्णे वक्ष्यमाणमन्त्रै-
र्मन्त्रितं क्षणमारुह्यावतरेत् । मन्त्रास्तु—
जयाश्व त्वं मया राजंस्तुरङ्गाद्य प्रतिष्ठितः ।
स्मराद्य लक्ष्म्याः पुत्रत्वं गन्धर्वत्वं तथा स्मर ॥
यथा नृणामयं राजा तथा त्वं भव वाजिनाम् ।
यथा भवन्तं नृपतिर्नित्यमेवाभिरक्षति ॥
तथा त्वं रक्ष राजानं सर्वावस्थागतं हय ।
दर्शयाश्व तथा स्वप्ने दैवदोषमुपागतम् ॥
तुरगान्सकलान् रक्ष त्वयि भारोऽयमर्पितः ।
अद्यप्रभृति राजा त्वामप्रेणाभ्येति भक्तितः ॥
अभ्यर्चयिष्यति सदा गन्धमाल्यानुलेपनैः ।
पूजनैश्च द्विजातीनां तथा च स्वस्तिवाचनैः ॥
रक्षतु त्वां महेन्द्रस्तु पूर्वेण त्रिदशाधिपः ।
दक्षिणेन यमो देवः पश्चिमेन जलाधिपः ॥
उदग्वैश्रवणो देवः सर्वे रक्षन्तु सर्वतः ॥ इति ।
ततो मुख्यं गजं पूर्ववदभिषिच्यालङ्कृत्य सांवत्सर आरुह्य
दक्षिणे कर्णे मन्त्रयित्वावतरेत् । मन्त्रास्तु—
श्रीगजस्त्वं कृतो राज्ञा भव तस्य गजाग्रणीः ।
गन्धमाल्याक्षभक्ष्यैस्त्वां पूजयिष्यति पार्थिवः ॥
लोकः सदाऽभयां पूजां करिष्यति यथा तव ।
पालनीयस्त्वया राजा युद्धेऽध्वनि तथा गृहे ॥
तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर ।
देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ॥