वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 51, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्तजाभिषेकः । ४९
तथा,
गते पुरोहिते रामस्ततो नियतमानसः ।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥
प्रगृह्य शिरसा पात्रं हविषो विधिवत्ततः ।
महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनिश्रयम् ।
ध्यायन्नारायणं देवं स्थण्डिले कुशसंस्तरे ॥
वाग्यतः सह वैदेह्या भूत्वा च नियतात्मवान् ।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥
कृतोपवासं रामं तु वैदेह्या सहितं तदा ।
सदर्भायां क्षितौ सुप्तं शुश्राव विधिवज्जनः ॥
विष्णुधर्मोत्तरे तु पुरन्दरशान्तिपूर्वकोऽभिषेक उक्तः
कार्या पौरन्दरी शान्तिः प्रागेवास्य पुरोधसा ।
प्राप्तेऽभिषेकदिवसे सोपवासः पुरोहितः ॥
सोष्णीषः श्वेतवसनः सितचन्दनभूषितः ।
सितमाल्योपवीतश्च सर्वाभरणभूषितः ॥
वेदिमुल्लिख्य मन्त्रेण हुत्वा च विधिवत्ततः ।
जुहुयाद्वैष्णवान्मन्त्रांस्तथा शाक्रान् विचक्षणः ॥
सावित्रान् वैश्वदेवाद्यान् सौम्यांश्च विधिवत्ततः ।
आयुः शर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥
आयुष्यमभयं चैव तथा चैवापराजितम् ।
सम्पातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥
वह्नेर्दक्षिणपार्श्वस्थः श्वेतचन्दनभूषितः ।
श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥
आसनस्थः सुखं पश्येन्निमित्तानि हुताशने ।
७