सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 348, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 348

३५२ वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रागाग्रं दक्षिणाग्रं च षट् रेखाः संहरेत्क्रमात् ॥
प्रागाद्याः पङ्क्तयः सप्त दक्षिणाग्रास्तथा पुनः ।
तस्मादेकोनपञ्चाशत्पङ्क्तयः परिकीर्त्तिताः ॥
न च पङ्क्तिं हरेन्मध्ये गन्धगोमयवारिणा ।
कमलं वा लिखेत्तत्र हस्तमात्रं सुशोभनम् ॥
अष्टपत्रं सितं वृत्तं कर्णिकाकेसरान्वितम् ।
अष्टाङ्गुलप्रमाणेन कर्णिका हेमसन्निभा ॥
चतुरङ्गुलमानेन केसरस्थानमुच्यते ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमम् ॥
आग्नेयादिषु कोणेषु स्थापयेत्प्रणवेन तु ।
अव्यक्तादीनि वै दिक्षु गोवाचारेण विन्यसेत् ॥
अव्यक्तो नियतः कालः कला चेति चतुष्टयम् ।
सितरक्तहिरण्याभकृष्णा धर्मादयः क्रमात् ॥
हंसाकारेण वै गात्रं हेमाभासेन सुव्रत ।
शक्तिराधारमध्ये तु कमलं सृष्टिकारणम् ॥
बिन्दुमात्रं कलामध्ये नादाकारमतः परम् ।
नादोपरि शिवं ध्यायेदोङ्काराख्यं जगद्गुरुम् ॥
मनोन्मनीं पदान्तस्थां महादेवं च भावयेत् ।
वामादयः क्रमेणैव प्रागाद्याः केसरेषु वै ॥
वामा ज्येष्ठा तथा रौद्री कला विकरणी तथा ।
बलप्रमथनी देवी दमनी च यथाक्रमम् ॥
वामदेवादिभिः सार्द्धं प्रणवेन तु विन्यसेत् ।
नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने ॥
रुद्राय कालरूपाय कलाविकरणाय च ।
बलानां च तथा सर्वभूतस्य दमनाय च ॥