सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 238, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 238

२४२ वीरमित्रोदयस्य राजनीतिप्रकाशे

सर्व्वेष्वेतेषु कर्त्तव्यं देवब्राह्मणपूजनम् ॥
कालज्ञपूजनं चैव स्थपतीनां च भार्गव ।
प्रावृट्काले न कर्त्तव्यं वास्तुकर्म विजानता ॥
कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम ।
तिथिं चतुर्थीं नवमीं वर्जयेच्च चतुर्दशीम् ॥
अङ्गारकदिनं राम करणं विष्टिसंज्ञितम् ।
दिव्यान्तरिक्षक्षितिजैरुत्पातैर्न च पीडितम् ॥
ग्रहोपसृष्टं च तथा व्यतीपातहतं च यत् ।
चन्द्रतारानुकूले भे गृहं कर्तुं विजानता ।
ध्रुवाणि भानि शस्तानि शाक्रं वै नैर्ऋतं तथा ॥
याम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च ।
स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके ॥
राम सौम्यग्रहाः केन्द्रे त्रिकोणे वापि भार्गव ।
पापाश्चोपचयस्थाने तस्मिन् कार्यं प्रवेशनम् ॥
केन्द्रस्थं वर्जयेत्पापं सर्वयत्नेन कर्मसु ।
केन्द्रसौम्ययुतं देयं न तु शून्यं कदाचन ॥
अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव ।
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ॥
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज ।
श्रियाः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥
पूजनं मण्डले कार्यं वासुदेवगणस्य च ।
गन्धाद्यैर्पुष्पनैवेद्यधूपदीपैर्भृगूत्तम ॥
तेषां सम्पूजनं कृत्वा समाधाय हुताशनम् ॥
ओङ्कारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु ।
श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः ॥