सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 179, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 179

लेखकादिलक्षणानि । १८३
उपायवाक्यकुशलः सर्वशास्त्रविशारदः ।
उपायाः, सामदानभेददण्डाः, तेषु वाक्येषु च निपुणः ।
बह्वर्थवक्ता चाल्पेन लेखकः स्यान्नृपोत्तम ॥
राजाभिप्रायतत्त्वज्ञो देशकालविभागवित् ।
अनाहार्यो नृपे भक्तो लेखकः स्यान्नृपोत्तम ॥
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥
धर्माधिकरणे कार्या जनाह्वानकरा नराः ।
एवंविधास्तथा कार्या राज्ञा दौवारिका जनाः ॥
तथा,
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ।
कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादक्षरक्षिता ॥
अक्षरक्षिता, अक्षाणां पाशानां क्रीडासाधनीभूतानां रक्षिता
पालकः ।
तथा,
लोहवस्त्राजिनादीनां रत्नानां च विधानवित् ।
विज्ञाता फल्गुसाराणामनाहार्यः शुचिः सदा ।
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥
आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः ।
व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवीक्षिता ॥
परम्परागतो यः स्यादाष्टाङ्गेन चिकित्सते ।
अष्टावङ्गानि, शल्य-शालाक्य-कायचिकित्सा-भूततन्त्र-
विषविद्या-रसायन-वाजीकरण-कुमारभृत्याः ।
अनाहार्यः स वैद्यः स्यात् धर्मात्मा च कुलोद्गतः ॥
प्राणाचार्यः स विज्ञेयो वचनं तस्य भूभुजा ।

१ अयं श्लोको मुद्रितमत्स्यपुराणे नोपलभ्यते ।