सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 111, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 111

आथर्वणपरिशिष्टोक्तपुष्याभिषेकः । ११३
अभिषेकाय राज्ञस्तु तोयमाहृत्य यत्नतः ॥
एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम् ।
औषधीस्तेषु सर्वेषु कलशेषूपकल्पयेत् ॥
सहा च सहदेवी च <sup>....</sup>वला तथा ।
मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला ॥
शतावरी जयन्ती च शतपुष्पा सचन्दना ।
प्रियङ्गुरोचनोशीरममृता च ससारिवा ॥
अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च ।
शिरीषाम्रकपित्थानां पल्लवैः समलङ्कृतान् ॥
हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् ।
आच्छादितान् सितैर्वस्त्रैरभिमन्त्र्य पुरोहितः ॥
सावित्र्युभयतः कृत्वा शन्नोदेवीस्तथैव च ।
हिरण्यवर्णासूक्तं च अनुवाकाद्यमेव च ॥
धरणी पादपीठं स्याद्दूर्वामूलाङ्कुराञ्छुभान् ।
तस्योपरि भवेत्पीठं हैमं रौप्यमथापि वा ॥
अनडुद्याघ्रसिंहानां मृगस्य च यथाक्रमम् ।
चत्वारि चर्माण्येतानि पूर्वादारभ्य विन्यसेत् ॥
चातुर्होत्रविधानेन जुहुयाच्च पुरोहितः ।
चतुर्दिक्षु स्थितैर्विप्रैर्वेदवेदाङ्गपारगैः ॥
बिल्वाहारः फलाहारः पयसा वापि वर्त्तयेत् ।
सप्तरात्रं घृताशी वा ततो होमं प्रयोजयेत् ॥
गव्येन पयसा कुर्यात्सौवर्णेन स्रुवेण तु ।
वेदानामादिभिर्मन्त्रैर्महाव्याहृतिपूर्वकैः ॥
शर्मवर्मगणश्चैव तथा स्यादपराजितः ।
आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः ॥
१५