सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 106, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 106

१०८ वीरमित्रोदयस्य राजनीतिप्रकाशे
वैयाघ्रं तु भवेच्चर्म समिद्दौदुम्बरी भवेत् ।
त्रिरेतमभिषिच्यैवं दुन्दुभीनभिमन्त्रयेत् ॥
प्राच्यां तु दिशि वसवो ह्यभिषिञ्चन्तु तेजसे ।
दक्षिणस्यां दिशि रुद्रा अभिषिञ्चन्तु वृद्धये ॥
प्रतीच्यां दिशि त्वादित्या अभिषिञ्चन्तु पुष्टये ।
विश्वेदेवा उदीच्यां तु अभिषिञ्चन्तु श्रेयसे ॥
आंभाषेञ्च च राजानमाशीर्भिरभिनन्द्य च ।
आत्वाहार्षमन्तरेधीत्यथैनमभिमन्त्रयेत् ॥
पतङ्गमिति नित्यं तु जपेदज्ञानभेदनम् ।
मायाभेदनमेतद्धि सर्वमाया प्रबाध्यते ॥
आत्वाहार्षमिति षट्चस्य सूक्तस्य आङ्गिरसो ध्रुव ऋ-
‘षिरनुष्टुप्छन्दः आभाषण्तस्य राज्ञः स्तुानरूपार्थो देवता
अभिमन्त्रणे विनियोगः । तदुक्तम्—
आत्वा षड् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं त्विति ।
आ त्वा॑हा॒र्षम॒न्तरे॑धि ध्रु॒वस्ति॑ष्ठाविचाचलिः ।
विशं॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ॥
इ॒हैवैधि॒ मा प॑च्योष्ठाः पर्व॑त इ॒वावि॑चाचलिः ।
इन्द्र॑ इ॒वेह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑धारय ॥
इ॒ममिन्द्रो॑ अदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषां॑ ।
तस्मै॒ सोमो॒ अधि॑ब्रवत्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे ।
ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।