सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 105, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 105

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०७
भहेति । पूर्वे पित्रादयः । अपरे पुत्रादयः । नोदापुः, न श-
क्नुयुः । अत्र दृष्टान्तः-दिवमिति । हस्ताभ्यां स्प्रष्टुमशक्तः ।
एवं पञ्च मानवा निषादपञ्चमाश्चत्वारो वर्णाः । अभिषे-
कं स्तौति-एतमिति । विद्यया महाभिषेकज्ञानेन । विद्याज्ञानेनैव
फलसिद्धिं दर्शयति-एतमिति । अत्यरातिर्ब्राह्मणः । महत्, म-
हत्त्वम् ऐश्वर्यं, मा, मां गुरुं, गमय प्रापय। त्वमिति। त्वमेव पृथि-
व्या राजा भव । पुरोहितमभिषेककर्त्तारं न द्रुह्येदित्युक्तम्, त-
दतिक्रमफलं दर्शयति । देवक्षेत्रम् उत्तरकुरवः । मे मह्यम् । अद्रुक्षो
द्रोहं कृतवान् । मया याचितं महत्त्वं दातुमनिच्छुर्वञ्चनयो-
त्तरकुरुजयं प्रार्थितवानसि । अतस्ते तव गुरुद्रोहिण, इदं सा-
मर्थ्यम्, आददे अपहरामि । आत्तवीर्यम् अपहृतवीर्यम् । शुष्मि-
णो राजा । एवंविदुषे अभिषेकज्ञाय । चकृषे कर्त्रे । अद्रोहे का-
रणमाह नेदिति । नैव राष्ट्रादेशाधिपत्याद् भ्रष्टो भूयासम् ।
जहत् परित्यजतु ।
अत्र ऋग्विधानोक्तः प्रकारविशेषः ।
राजानमभिषिञ्चेत तिष्येण श्रवणेन वा ।
पौष्णसावित्रसौम्याश्विरोहिण्यामुत्तरासु च ॥
हुत्वाऽग्निं राजलिङ्गाभिः सावित्र्या प्रयतः शुचिः ।
महाव्याहृतिभिश्चैव सम्पाताभिर्हुतो भवेत् ॥
सर्वौषधिरसैः श्लक्ष्णैर्नदीनां सलिलेन च ।
व्याघ्रचर्मण्यथासीनमासन्‍द्यामभिषिञ्चयेत् ॥
तिष्ठन् प्रत्यङ्मुखो ब्रूयाज्जय त्वं पृथिवीमिमाम् ।
धर्मस्ते निखिलो राजन् वर्द्धतां पालय प्रजाः ॥
वर्द्धस्व च श्रियै पुष्ट्यै जयायाभ्युदयाय च ।
राजानः सन्तु ते गोत्रे ततो ऽप्रतिरथं जपेत् ॥