सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 99, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 99

८६ विक्रमोर्वशीये
सहअरिदुक्खालिद्धं सव्वरअम्मि सिणिद्धअम् ।
बाहोग्गिण्णअणअं तम्मइ हंसीजुअलअम् ॥ २ ॥
सहजन्या—(सखेदम् ।) सहि चित्तलेहे, म्लिअमाणसणलच्छ-
सणा दे मुहच्छाआ हिअअस्स अमत्थदं सूचेदि । ता कहेहि मे
अणिव्विदकारणं जेण दे समाणदुक्खा होमि ।
चित्रलेखा—सहि, अच्छरावारपज्जाएण तत्तभवदो सुज्जस्स
उवट्ठाणे वहन्ती पिअसहीए विणा बलिअं उक्कण्ठिदम्हि ।
सहजन्या—सहि, जाणामि वो अण्णोण्णगदं पेम्मम् । तदो
वदो ।
१ सहचरीदुःखालिढं सरोवरे स्निग्धम् ।
बाष्पावगलितनयनं ताम्यति हंसीयुगलम् ॥
२ सखि चित्रलेखे, म्लायमानकमलदृष्ट्या ते मुखच्छाया हृदय-
स्यास्वस्थतां सूचयति । तत्कथय मेऽनिर्वृतिकारणं येन ते समानदुःखा
भवामि ।
३ सखि, अप्सरोवारपर्यायेण तत्रभवतः सूर्यस्योपस्थाने वर्तमाना
प्रियसख्या विना बलवदुत्कण्ठितास्मि ।
४ सखि, जानामि युवयोरन्योन्यगतं प्रेम । ततस्ततः ।
शुद्धान्तःपुरसंबन्धिन्या मता ॥ ईदृशं प्रकृते वत्स्या...
... सहचरीति । सहचरीदुःखालिढं
सरोवरेऽपि रम्य... हंसीयुगलम् ॥ बाष्पावगलितनय-
नम् । ताम्यति । उत्कण्ठितं भवति ॥ २ ॥ सहजन्या । सखि चित्रलेखे, म्लायमानक-
मलच्छव्या ते मुखच्छाया हृदयस्यास्वस्थतां सूचयति । तत्कथय मे निर्वृतेः का-
रणं येन ते समानदुःखा भवामि ॥ चित्रलेखा । सखि अप्सरोवारपर्यायेण
तत्रभवतः सूर्यस्योपस्थाने वर्तमाना प्रियसख्या विना बलवदुत्कण्ठितास्मि । यद्य-
प्युपस्थानं कुर्वत्या मया प्रियसख्या विना बलवदुत्कण्ठितं तथापि वर्तते तु यदुपस्थीयते तस्यैव
कृतेन मम । यथा तथापि वा परस्येवेति । अत्र सूर्यो वदेत् ॥ सहजन्या ।
सखि, जानामि युवयोरन्योन्यगतं प्रेम । ततस्ततः ॥ चित्रलेखा । हञ्जे एत्थु