सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 73, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 73

तृतीयोऽङ्कः ।
(ततः प्रविशतो भरतशिष्यौ ।)
प्रथमः—सखे पेलव, उपविष्टासनग्रहणे महेन्द्रमन्दिरप्रस्थि-
ध्यायिना त्वमासनं ग्राहितः । अहन्त्विदमुदककलशं साधितः । तत्
पृच्छामि पुरो प्रयोगेन देवरिषदाराधिता न वेति ।
द्वितीयः—गालव, ण जाणे कहं आराधिदा होदि । तस्सिं
उण सरस्सईकिदिकव्वबन्धे लच्छीसअंवरे उव्वसी तेसु तेसु रसांतरेसु
उम्माइदा आसि ।
प्रथमः—सदोषवकाश इव वाक्यशेषः ।
द्वितीयः—आम । ताए वअणं पमादक्खलिदं आसि ।
प्रथमः—किमिव ।
द्वितीयः—लच्छीभूमिकाए वहमाणा उव्वसी वारुणीभूमिकाए
वहमाणाए मेणवाए पुच्छिदा । समागदा तेलोक्कपुरिसा सकेसवा
लोअपाला । कदरम्मि दे हिअआहिणिवेसो त्ति ।
१ गालव, न जाने कथमाराधिता भवति । तस्मिन्पुनः सरस्वतीकृत-
काव्यबन्धे लक्ष्मीस्वयंवरे उर्वशी तेषु तेषु रसान्तरेषून्मादितासीत् ।
२ आम । तस्याः वचनं प्रमादस्खलितमासीत् ।
३ लक्ष्मीभूमिकया वर्तमाना उर्वशी वारुणीभूमिकया वर्तमानया मेनकया
पृष्टा । समागतास्त्रैलोक्यपुरुषाः सकेशवा लोकपालाः । कतमस्मिंस्ते हृदयाभि-
निवेस इति ।
'इदानीं पेलवगालवाख्यभरतमुनिशिष्ययुग्मेन राज्ञः पुनरुर्वशीसमागमसम्भावनाय
तावदाह—ततः प्रविशत इति। प्रथमः। शरणं गृहम्। 'शरणं
गृहरक्षित्रोः शरणं रक्षणे वधः। इति विश्वलोचनः। प्रयोगेण लक्ष्मीस्वयंवर-
रूपरूपेण। परिषद्सभा। समज्याः परिषत्' इत्यमरः॥ द्वितीयः। गालव,
न जाने कथमाराधिता भवती। तस्मिन्पुनः सरस्वतीकृताव्यबन्धे लक्ष्मी-
स्वयंवरे उर्वशी तेषु रसान्तरेषून्मादितासीत्॥ द्वितीयः। आमेति स्मरणे।
'आमानुपूर्व्ये स्मरणे' इति त्रिकाण्डी। तस्या वचनं प्रमादस्खलितमासीत् ॥
द्वितीयः। लक्ष्मीभूमिकया वर्तमाना उर्वशी वारुणीभूमिकया वर्तमानया मेन-
1