विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 15, कुल 168 में से
संदर्भ में पढ़ें१२ विक्रमोर्वशीये
राजा-किं पुनरुपप्लवहेतुं भवतीभ्यामवगतम् ।
रम्भा-सुणादु महाराओ। जा तवोविसेससङ्किदस्स
मारं पहरणं महेन्दस्स, पच्चादेसो रूवगव्विदाणं सिरिगौरीणं,
मंदावो सग्गस्स, सा णो पियसही उव्वसी कुवेरभवणादो णि
वत्तान्ती कत्थवि दाणवेण चित्तलेहादुदीया अद्धपथे जेव बन्दी
गाहं गिहीदा ।
राजा-अपि ज्ञायते कतरेन दिग्भागेन गतः स जाल्मः
अप्सरसः-ईसाणीए दिसाए ।
राजा-तेन हि मुच्यतां विषादः । यतिष्ये वः सखीम-
स्तानयनाय ।
अप्सरसः-सरिसं एदं सोमवंससंभवस्स ।
राजा-क्व पुनर्मां भवत्यः प्रतिपालयिष्यन्ति ।
१ शृणोतु महाराजः । या तपोविशेषशङ्कितस्य सुकुमारं प्रहरणं
महेन्द्रस्य, प्रत्यादेशो रूपगर्वितायाः श्रीगौर्याः, अलङ्कारः स्वर्गस्य, सा
नः प्रियसख्युर्वशी कुबेरभवनान्निवर्त्तमाना केनापि दानवेन चित्रलेखा-
द्वितीया अर्धपथ एव बन्दिग्राहं गृहीता ।
२ ऐशान्या दिशा ।
३ सदृशमेतत् सोमवंशसंभवस्य ।
इत्यादयः ॥ रम्भा । शृणोतु महाराजः । या तपोविशेषशङ्कितस्य सुकुमारं प्रहरणं
महेन्द्रस्य प्रत्यादेशो रूपलावण्यायाः नाग या अलङ्कारः स्वर्गस्य सानः प्रियसखी
उर्वशी कुबेरभवनान्निवर्त्तमाना केनापि दानवेन चित्रलेखाद्वितीया अर्धपथ एव
बन्दिग्राहं गृहीता । परावर्त्तमाना सहसा इति हिरण्यपुरवासिना केशिना
दानवाधिपेन इत्यपि क्वचित्पाठः । प्रहरणमायुधम् । 'आयुधं तु प्रहरणं शस्त्र-
मस्त्रम्' इत्यभिधाने । प्रत्यादेशो निराकृतिः इति च सा । स्वर्गस्य सौन्द-
र्यस्य । चित्रलेखानाम्नाप्सरसा वयस्योर्वशी । बन्दीव गृहीत्वा बन्दिग्राहम् । हिरण्य-
पुरस्य नगरम् । वाप्योत्प्रमीन्दुकरी इति निष्ठापौ ॥ अप्सरसः ।
ऐशान्या दिशा । पूर्वोत्तरेण इत्यपि पाठः । पूर्वोत्तरयोरन्तरालेनेत्यर्थः ॥ अप्स-
रसः । सदृशमेतत्सोमवंशसम्भवस्य । प्रतिपालयन्ती प्रतीक्षा ॥ अप्सरसः । क्व